पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/५०५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्मः ] तिङकाण्डम् | (४६७) अभ्योतदित्यादि – रुधिरम् अश्च्योतत् अस्रवत् । विह्वलं च सत् तोयमल- पत् अभिलषितवत् । 'वा आशभ्लाशभ्रमुकमुकुमुत्रसित्रुटिलषः । ३।१।७०' इति विकल्पेन शप् | अशीयत च अवसैन्नम् । 'शदेः शितः |१|३|६०|' इति तङ् । 'पात्राध्मास्थाम्नादाणदृश्यर्तिसर्तिशदसदां पिबजिघ्रधम तिष्ठमन यच्छ पर्यच्छेधौ. शीयसीदाः । ७।३ । ७८ ।। इति शीयादेशः । मांसमदन्तीति । 'अदोऽनन्ने |३|२|६८|' इति विट् ॥ ७७ ॥ विरूपाक्षस्ततोऽक्रीडत् सङ्ग्रामे मत्तहस्तिना । मुष्टिनादालयत् तस्य मूर्धानं वानराधिपः ॥ ७८ ॥ विरूपाक्ष इत्यादि-ततो विरूपाक्षो नाम राक्षसः मत्तहस्तिना मत्तहस्ति- सहशेन सुग्रीवेण वानरेण सङ्ग्रामे अक्रीडत् भ्रान्तवान् । तस्य विरूपाक्षस्य मूर्धानं वानराधिपः सुप्रीवः मुष्टिना अदालयत् दलितवान् । ' दल विदारणे' चुरादिः ॥ ७८ ॥ 20 अचूर्णयच यूपाक्षं शिलया तदनन्तरम् । संक्रुद्धो मुष्टिनातुम्नादङ्गदोऽलं महोदरम् ॥ ७९ ॥ अचूर्णय दित्यादि---- तदनन्तरं वानराधिपः सुग्रीवः यूपाक्षं नाम राक्षसं शिलया अचूर्णयत् चूर्णितवान् । 'सत्यापपासरूपवीणातूल श्लोकसेनालोमत्व- चवर्मवर्णचूर्णचुरादिभ्यो णिच् | ३|१|२५' इति णिच् । अङ्गदोऽपि संक्रुद्धः मुष्टिना महोदरम् अलं पर्याप्तमतुम्नात् व्यापादितवान् । 'णभ तुभ हिंसायाम् ।' त्र्यादिः ।। ७९ ॥ ततोऽक्रुष्णाद्दशग्रीवः क्रुद्धः प्राणान् वनौकसाम् । अगोपायच्च रक्षांसि दिशश्वारीनभाजयत् ॥ ८० ॥ तत इत्यादि -- ततो दशमीवः क्रुद्धः वनौकसां वानराणां प्राणानकु- दणात् कुष्टवान् । 'कुष निष्कर्षे' । रक्षांसि च राक्षसांश्चागोपायत् रक्षि- तवान् । 'गुपूधूपविच्छिपणिपनिभ्य आय: |३|१|२८|' इत्यायप्रत्ययः । अरींश्च शत्रूंश्च दिशोऽभाजयत् प्रहितवान् ॥ ८० ॥ आलोकयत्सकाकुत्स्थमघृष्णोद्धोरमध्वनत् । धनुरभ्रमयद्भीममभीषयत विद्विषः ॥ ८१ ॥ १ विनाशमगमत् ।