पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/५०२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(४६४ ) भट्टिकाव्ये जयमङ्गलासमेते- [ सप्तदशः - छिन्नानित्यादि--- रामसायकैश्छिन्नान् भिन्नांश्च समन्तादैक्षन्त । हाहेति च क्रुष्टं शब्दमन्योन्यस्य चागृण्वन् । नच नैव रामं न्यरूपयन् राम इति च न निश्चितवन्तः । 'रूप व्याक्रियायाम्' इति चौरादिकः ॥६५॥ अभिनच्छत्रुसङ्घातानक्षुणद्वाजिकुञ्जरम् । अपिनट् च रथानीकं न चाज्ञायत संचरन् । ६६ । अभिनदित्यादि----शत्रुसङ्घातानभिनत् भिन्नवान् । वाजिकुञ्जरमक्षुणत् स- म्पिष्टवान्‘क्षुदिर् सम्पेषणे 'स्थानीकै रथस्त्रमूहमपिनट् पिष्टवान् 'पिष्ट संचूर्णन।' एते सर्वेऽपि थातवो रौधादिकाः । न च संचरन् रामः अज्ञायत न ज्ञातः । स्वैः परैर्वेत्यर्थात् । कर्मणि लङ् ।। ६६ ।। दश दन्तिसहस्राणि रथिनां च महात्मनाम् । चतुर्दश सहस्राणि सारोहाणां च वाजिनाम् ॥ ६७ ॥ लक्षे च द्वे पदातीनां राघवेण धनुर्भुता । अनीयन्ताष्टमे भागे दिवसस्य परिक्षयम् ॥ ६८ ॥ दशेत्यादि


अनेन राघवेण धनुभृता दिवसत्याष्टम भागे अर्धग्रहरे

दश दन्तिनां सहस्राणि रथिनां च महात्मनां चतुर्दश सहस्राणि । सारोहाणां च वाजिनां ताँवन्त्येव । पदातीनाम् द्वे लक्षे परिक्षयं विनाश- मनीयन्त नीताः । कर्मण लङ् | अनीयतेति पाठान्तरं तत्र सर्वमेतदनीय- तेति योज्यम् ॥ ६७ ॥ ६८ ॥ यमलोकमिवाप्रश्नाद्रुद्राक्क्रीडमिवाकरोत् । शैलैरिवाचिनोद्भूमिं वृहद्धी राक्षसैर्हतैः ॥ ६९ ॥ यमलोकमित्यादि--स राघवः तैः राक्षसैः बृहद्भिः यमलोकमिवाग्र- आत् सन्दर्भितवान् । 'श्रन्थ ग्रन्थ सन्दर्भे' इति क्र्यादिः । रुद्राक्रीडमिव रुद्रस्य क्रीडास्थानं श्मशानमिवाकरोत् । भूमिं शैलैरिवाचिनोत् छादि- तवान् ॥ ६९ ॥ अस्तुवन्देवगन्धर्वा व्यस्मयन्त प्लवङ्गमाः । कपीन्द्रेऽतन्यत प्रीतिः पौलस्त्योऽमन्यताद्भुतम् ॥ ७० ॥ १ 'अनीकं सैन्यसङ्घयोः ।' इति रभसः । शसहस्राण्येव । २ महाकायानाम् । ३ चतुर्द-