पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/५०१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ] तिङ्काण्डम् । (४६३) तत इत्य (दि----ततोऽनन्तरं निरालाके समरे राक्षसः स्वेभ्योऽन्येभ्य- द्विषुः क्रुध्यन्ति स्म । वानरा अपि वानरेभ्योऽद्विषन् निर्दयाः सन्तः । अपि- शब्दात् राक्षसेभ्योऽपि । 'द्विषश्च । ३ । ४ । ११२ |' इत्यनेन शाकटायनम झेर्जुस् ॥ ६१ ॥ अघुरस्ते महाघोरमच्योतन्नथ शोणितम् । समपद्यत रक्तेन समन्तात्तेन कर्दमः ॥ ६२ ॥ अघुरन्नित्यादि----अथानन्तरं ते हताः राक्षसा वानरा अधुरन् घोरं. रौद्रं शब्दितवन्तः । ‘घुर् भीमार्थशव्दयोः ।' शोषितं चाऋषोतन् क्षरन्ति स्म । तेन च रक्तेन रक्तस्रुतेन समन्तात्सर्वतः कर्दमः समपद्यत सम्पन्नः । कर्मणि लङ् ।। ६२ ।। गम्भीराः प्रावहन्नद्यः समजायन्त च हृदाः । वृद्धं च तद्रजोऽशाम्यत्समवेद्यन्त च द्विषः ॥ ६३ ॥ गम्भीरा इत्यादि—-तेन रक्तेन वर्धिष्णुना वधमानन गम्भीरा अंगाधाः | नद्यः प्रावहन् प्रवृत्ताः । हृदास्तडागाः समजायन्त संजाताः । तच्च भौमं रजः प्रवृद्धमशाम्यत् शान्तम्, उद्गमाभावात् । उत्पन्नस्य च पतनात् रजःशमनात् । द्विषश्च शत्रवः पुनः परस्परं स्वं परं च समवेद्यन्त संवेद्यन्ते स्म विज्ञा- तवन्त इति भावः । 'विद चेतनाख्याननिवासेषु' इति चौरादिकः । कर्मणि लङ् ॥ ६३ ॥ ततोऽचित्रीयतात्रौघैधनुश्चाधूनयन्महत् । रामः समीहितं तस्य नाचेतन्स्वे न चापरे ॥ ६४ ॥ तत इत्यादि --- ततोऽनन्तरं रामः अस्त्रौघैरचित्रीयत आश्चर्याभूतः । ‘नमोवरिवश्चित्रङ्ः क्यंच् । ३ । १ । १९ ।' इति चित्रङः क्यच् । ङित्त्वात्तङ् । धनुश्च महदभूनयत् । 'धून्प्रीनोनुग्वक्तव्यः' । तस्य रामस्य समीहितमभिप्रेतं न स्वे आत्मीया: वानराः न च अपरे परकीया नाचेतन् न ज्ञातवन्तः ॥ ६४ ॥ छिन्नानैक्षन्त भिन्नांश्च समन्ताद्रामसायकैः । क्रुष्टं हाहेति चानृण्वन्न च रामं न्यरूपयन् ॥ ६५ ॥ १ रजोऽन्धकारेण च्छन्ने । २ अतव्यस्पर्शा इति स्पष्टोऽर्थः । इदमतिशयद्योतनार्थ- मात्रम् ।