पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/५००

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(४६२) भट्टिकाव्ये जयमङ्गलासमेते- अपूरयन्नभः शब्दो बलसंवर्तसम्भवः । अपूर्यन्त च दिग्भागास्तुमुलैस्तूर्यनिस्वनैः ॥ १६ ॥ अपूरयदित्यादि - बलानां सनानां संवर्तः एकीभावः तस्मात्सम्भवो यस्य स शब्दः नभ आकाशमपूरयत् पूरितवान् | तुमुलैस्तूर्यनिस्वनैः महद्भिर्वाद्यानां घोषैदिग्भागा अपूर्यन्त पूर्णाः कर्मणि लङ् ॥ ५६ ॥ - असीहारेषु सट्टो स्थाश्वद्विपरक्षसाम् । सुमहान निमित्तैश्च समभूयत भीषणैः ॥ १७ ॥ आसीदित्यादि--रथादीनां निर्गच्छतां लङ्काद्वारेषु संघट्टः सुमहाना- सीत् । जनभूयस्तया संघर्षोऽभूत् । 'अस्तिसिचोऽपृक्ते । ७ । ३ । ९६ ।' इतीट् । अनिमित्तैः भीषणैर्भयङ्करैमहद्भिः समभूयत क्षयकरैर्निमित्तैर्भूतम् । भावे लङ् ।। ५७ ।। कपयोऽविभयुस्तस्मिन्नभश्च महाद्रुमान् | प्रोदखायन् गिरीस्तूर्णमगृहंश्च महाशिलाः ॥ ५८ ॥ [सप्तदशः - कृपय इत्यादि - तस्मिन्निगते कपयोऽविभयुः भीतवन्तः । महाद्रुमांच योद्धुमभञ्जन् भग्नवन्तः । गिरीन् प्रोदखायन् उत्खातवन्तः 'खै खदने ।' शिति आत्वं न भवति । महाशिला अगृह्णन् गृहीतवन्तः ।। ५८ ॥ ततः समभवद्युद्धं प्राहरन्कपिराक्षसाः । अन्योन्येनाभ्यभूयन्त विमर्दमसहन्त च ॥ ५९ ॥ तत इत्यादि - ततोऽनन्तरं युद्धं समभवत् प्रवृत्तम् । कपिराक्षसाः प्राहरन् प्रहृतवन्तः । अन्योन्येनाभ्यभूयन्त कपयो राक्षसैः राक्षसाश्च कपिभिरिति । कर्मणि लङ् | विमर्दमसहन्त च सोढवन्तः ॥ ५९ ॥ प्रावर्धत रजो भौमं तद्वचाश्नुत दिशो दश । परात्मीयविवेकं च प्रामुष्णात्कपिरक्षसाम् ॥ ६० ॥ प्रावर्धतेत्यादि- ···-बलद्वयप्रक्षोभात् भौमं रजः प्रावर्धत प्रवृद्धम् । तद्रजो दश दिशो व्याश्नुत व्याप्नोत् । कपिरक्षसां मध्ये अयं परोऽयं चात्मीय इति यो विवेकस्तं च प्रामुष्णात् अपनीतत् । 'मुष स्तेये' क्र्यादिः ।। ६० ।। ततोऽद्विषुर्निरालोके स्वेभ्योऽन्येभ्यश्च राक्षसाः । अद्विषन्वानराश्चैव वानरेभ्योऽपि निद्याः ॥ ६१ ॥ १ पृथिवीसम्बन्धि । २ रजसोऽत्युत्पातात् | .