पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/४९९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ] तिङ्काण्डम् । परितः पर्यवाद्वायुराज्यगन्धिर्मेनोरमः । अश्रूयत सपुण्याहः स्वस्तिघोषः समुच्चरन् ॥ ५२ ॥ परित इत्यादि --अग्निसन्तर्पणांदाज्यगन्धिः आज्येस्य गन्धो यस्मिन्वायौ स वायुर्मनोरमः सर्ववेश्मसु पर्यवात् परितो वाति स्म । स्वस्तिघोषश्च सपुण्याहः पुण्याहशब्देन सह समुच्चरन्नश्रूयत श्रूयते स्म । कर्मणि लङ् ॥ ५२ ॥ योद्धारोऽबिभरुः शान्त्यै साक्षतं वारि मूर्धभिः । रत्नानि चाददुर्गाश्च समवाञ्छन्नथाशिषः ॥ ५३॥ योद्धार इत्यादि —योद्धारः शान्त्यै शान्त्यर्थ साक्षतम् अक्षततण्डुलैर्युक्तं सलाजं च वारि जलं मूर्धभिरबिभरुः दधति स्म । 'सिजभ्यस्तविदिभ्यश्च । । ३। ४ । १०९ ।' इति झेर्जुस् 'भृञामित् । ७ । ४ । ७६ ।' इतीत्त्वम् । रत्नानि गाश्चाददुः दत्तवन्तः । आशिषश्च तेभ्यः समवाञ्छन् काङ्क्षितवन्तः 'वाछि इच्छायाम्' ।। ५३ ।। अदिहंश्चन्दनैः शुभ्रैर्विचित्रं समवस्त्रयन् । अधारयन् स्त्रजः कान्ता वर्म चान्येऽदधुद्रुतम् ॥ १४ ॥ अदिहन्नित्यादि --शुभ्रैः शुकुवर्णैश्चन्दनैः गात्राणि अदिहन् लिप्तवन्तः । 'दिह उपचये' । विचित्रं शोभनं समवस्त्रयन् आच्छादितवन्तः । 'मुण्डमिश्र - श्लक्ष्णलवणव्रतव खहल कलक्कृततूस्तेभ्यो णिच । । १ । २१ ।” इति ‘वस्त्रात्समाच्छादने' णिच् । कान्ताः शुभ्राः स्रजः अधारयन् धारितवन्तः । 'श्रृञ् धारणे' । अण्यन्तस्य प्रयोग एव नास्ति । अन्ये च वर्म्म कवचम् | जातावेकवचनम् | तेन कर्म्माणीत्यर्थः । द्रुतमदधुः धारितवन्तः ॥ ५४ ॥ समक्ष्णुवत शस्त्राणि प्रामृजन् खड्गसंहतीः । गजादीनि समारोहन् प्रातिष्ठन्ताथ सत्वराः ॥ ५५ ॥ (४६१ ); - समक्ष्णुवतेत्यादि — शस्त्राणि समक्ष्णुवत । 'क्ष्णु तेजने' 'सम: क्ष्णुवः | १। ३ । ६५ ।' इति तङ् । सँगसंहती : प्रामृजन शोधितवन्तः । मृजेरजादौ विभाषा वृद्धिः । गजादीनि यौनानि समारोहन् आरूढाः । गजादिष्विति पाठान्तरम् । तत्राधिकरणत्वं विवक्षितम् । अथानन्तरमारूढाः सत्वरा:- प्रातिष्ठन्त प्रस्थिताः। 'समवप्रविभ्यः स्थः | १|३|२२|' इति तङ् ॥ ५५ ॥ १ घृतस्य | २ मालाः | ३ खड्गसमूहान् । ४ वाहनानि ।