पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/४९८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(४६० ) भट्टिकाव्ये जयमङ्गलासमेते- [ सप्तदशः अरोदीदित्यादि--राक्षसानीकं राक्षससैन्यमरोदीत् रुदितम् । 'रुदश्च पञ्चभ्यः । ७ । ३ । ९८|' इतीट् । नृभुजां पतिः रावणः अरोदीत् रुदि॒ितः । ‘अड् गार्ग्यगालवयोः । ७ । ३ । ९९ ।' इत्यडागमः | मैथिल्यै सीतायै चा- शपत् आक्रुष्टवान् । सर्वदोषस्य मूलमिति । 'लाहुस्थाशपां ज्ञीप्स्यमानः |१|४|३४|' इति कर्माण सम्प्रदानसंज्ञा । तां च हन्तुम् आतुरो मन्युक्षतः शोक- पीडित इति यावत् प्राक्रमत प्रारब्धवान् । 'प्रोपाभ्यां समर्थाभ्याम् । १ । ३ | ४२ ।' इति तङ् ॥ ४८ ॥ - अयुक्तमिदमित्यन्ये तमाप्ताः प्रत्यवारयन् । न्यरुन्धंश्चास्य पन्थानं बन्धुता शुचमारुणत् ॥ ४९ ॥ अयुक्तमित्यादि---अन्ये आप्ता: राक्षसाः अयुक्तमेतदिति मन्यमानाः तं तथाविधं प्रत्यवारयन् आवार्य स्थिताः । 'वृञ् आवरणे' चुरादिः । पन्थानं मार्ग न्यरुन्धंश्च हस्तपादादिग्रहणेन रुद्धवन्तः । बन्धुता बन्धुसमूहः । अस्य रावणस्येन्द्रजिन्मरणजन्यं शुचं शोकमारुणत् अपनीतवती । हलधादिलोप:' धकारस्य जश्त्वम् ॥ ४९ ॥ आस्फायतास्य वीरत्वममर्षश्चाप्यतायत | रावणस्य ततः सैन्यं समस्तमयुयुत्सयत् ॥ ५० ॥ आस्फायतेत्यादि --अथ निरुद्धशोकस्य रावणस्य वीरत्वं शौर्यम् आस्फा- यत वृद्धिं गतम् । अमर्षश्च क्रोधः अतायत तारं गतःः । ततः स रावणः समस्तं सैन्यम् अयुयुत्सयत् युयुत्समानं प्रयोजितवान् ॥ ५ अग्नीनवरिवस्यश्च ते ऽनमस्यंश्च शङ्करम् | द्विजानप्रीणयञ् शान्त्यै यातुधाना भवद्भिः ॥ ५१ ॥ अग्नीनित्यादि-ते यातुधानाः भवद्भियः भवन्ति उत्पद्यमाना भियो भीतयो येषां ते । अग्नीनवरिवस्यन् परिचारितवन्तः । 'नमोवरिवश्चित्रङः क्यच् । ३ । १ । १९ ।' इति वरिवसः परिचर्यायामिति क्यच् । तदन्ताल्लङ् | शङ्करं च महादेवं च अनमस्यन् पूजितवन्तः । अत्र नमसः पूजायां पूर्ववत् क्यच् | द्विजांश्च शान्त्यै शान्त्यर्थमप्रीणयन् प्रीणितवन्तः । 'धूप्रीमोनुग्वक्तव्यः' इति प्रीञो नुक् ।। ५१ ॥ १ बन्धूनां समूह इति बन्धुता, 'ग्रामजनबन्धुभ्यस्त ४ । २ । ४३ ।' इति । तलू | 'ज्ञातेयं बन्धुता तेषां क्रमाद्भावसमूहयोः ।' इत्यमरः ।