पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/४९७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्ग: 1 तिङ्काण्डम् । (४५९) मुहुरार्करतां विक्षिप्तवन्तौ । स्वस्वपराक्रमममतिशयेनदर्शितवन्तावित्यर्थः । वारुणमस्त्र लक्ष्मणोऽक्षिप्यत् । देवादिकस्य रूपम् । इन्द्रजिद्रौद्रं पाशुमतमक्षि- पत् क्षिप्तवान् । तौदादिकस्य रूपम् ॥ ४३ ॥ ते परस्परमासाद्य शस्त्रे नाशमगच्छताम् । आसुरं राक्षसः शस्त्रं ततो घोरं व्यसर्जयत् ॥ ४४ ॥ ते परस्परमित्यादि-- ते शखे परस्परमासाद्य प्राप्य नाशमगच्छतां नाशं गते । ततस्तन्नाशादनन्तरं राक्षसो रावणिरिन्द्राजित् आसुरम् असुर दैवतं शस्त्रं घोरं भीषणं व्यसर्जयत् क्षिप्तवान् ॥ ४४ ॥ तस्मान्निरपतद्भरि शिलाशूलेष्टिमुद्गरम् | माहेश्वरेण सौमित्रिरस्तनात्तत्सुदुर्जयम् ॥ ४५ ॥ तस्मादित्यादि---तस्मात् क्षिप्तादासुरादखात् शिलाशलेष्टिमुद्गरं निरपतत् । इष्टिः प्रहरणविशेषः । तच्चासुरं सुदुर्जयं सौमित्रिर्लक्ष्मणो माहेश्वरेण अस्त- नात् स्तम्भितवान् । ‘स्तम्भुस्तुम्भुस्कम्भुस्कुम्भुस्कुञ्भ्यः श्नुश्च |३|१||८२||' इति चकारात् श्ना ॥ ४५ ॥ ततो रौद्रसमायुक्तं माहेन्द्रं लक्ष्मणोऽस्मरत् । तेनागम्यत घोरेण शिरश्चाहियत द्विषः ॥ ४६ ।। तत इत्यादि -- ततोऽनन्तरं रौद्रसमायुक्तं रौद्रास्त्रेण सहितं माहेन्द्र- मस्त्रं रौद्रं माहेन्द्रं चास्त्रमित्यर्थः लक्ष्मणोऽस्मरत् चिन्तितवान् । तेन स्मरणादेव आगम्यत आगतम् । भावे लङ् । तस्य द्विषः शत्रोः शिरश्चाहियत छिन्नम् । कर्मणि लङ् ॥ ४६॥ L अतुष्यन्नमराः सर्वे प्राहृष्यन्कपियूथपाः । पर्यष्वजत सौमित्रि मूर्न्यजिघ्रञ्च राघवः ॥ ४७ ॥ अनुष्यन्नित्यादि -- तस्मिन् मृते अमरा देवा: अतुष्यन् तुष्टाः । कपियू- थपा: कपिवयोः प्राहृष्यन् प्रहृष्टाः । राघवश्च सौमित्रिं पर्यष्वजत आश्लिष्ट- वान् । 'देशसञ्जस्वजां शपि|६|४|२५|' इत्यनुनासिकलोपः । 'प्राक् सिता- द्व्यवायेऽपि । ८ । ३ ।। ६३ ।। इति वचनात् परिनिविभ्यः सेवसितसयसिवुसहसुट्स्तुस्वञ्जाम् ८ । ३ । ७० ।' इति षत्वम् । मूर्य-जिघ्रञ्च आघ्रातवान् ॥ ४७॥ अरोदीद्राक्षसानीकमरोदन्नृभुजां पतिः । मैथिल्यै चाशपद्धन्तुं तां प्राक्रमत चातुरः ॥ ४८ ॥