पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/४९६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(४५८) भट्टिकाव्ये जयमङ्गलासमेते- [ सप्तदशः- 'शमामष्टानां दीर्घः श्यनि |७|३|७४ | इति दीर्घः । सुहृदो बन्धूंश्च सुहृद्वन्धून् आशङ्कत विकल्पितवान् । अवृद्धान् अविदुषो मूढान् प्रहस्ता- दीन बह्वमन्यत लाघितवान् ॥ ३९ ॥ दोरमभिस्ते पितात्यज्यत यैर्मया । ततोऽरुष्यदनर्दच्च द्विविंशतिभिरेव च ॥ ४० ॥ दोषैरित्यादि-- एभिर्दोषैस्तव पिता रावणः अरमत क्रीडितवान् | यैर्दोषैर्मया अत्यज्यत । कर्मणि लङ् । ततः पितुर्दोषप्रकाशनवचनादन - न्तरम् । रावणिरिति वक्ष्यमाणेन संबन्धः | अरुण्यत् रुष्टः । 'रुष रुष्टी' अनर्दच्च विस्फूर्जितवांश्च ॥ ४० ॥ शरैरताडयद्वन्धुं पञ्चविंशतिभिर्नृपम् । रावणिस्तस्य सौमित्रिरमश्नाच्चतुरो हयान् ॥ ४१ ॥ शरैरित्यादि---बन्धुं विभीषणं द्विविंशतिभिः शरैरताडयत् । चत्वारिंशते - त्यर्थः । द्वे विंशती येषां शराणामिति बहुव्रीहिः । एवं च 'ह्यष्टन: संख्यायामबहुव्रीह्यशत्योः ||६|३|४७१' इत्यात्वं न । तथा पञ्चविंशतिभिः शरैर्नृप ताडयत् । शतेनेत्यर्थः । द्वौ च विंशतिश्च पञ्चविंशति- श्वेत्यस्मिन् व्याख्याने द्वाविंशत्या पञ्चविंशत्यति च प्राप्नोति । सौमित्रिस्तु लक्ष्मणः पुनः तस्य रावणे रावणपुत्रस्येन्द्रजितश्चतुरो हयान् बाणैरमनात् । 'मथे विलोडने' इति क्र्यादौ ॥ ४१ ॥ सारथि चालुनाद्वाणैरभनक्स्यन्दनं तथा । सौमित्रिम किरद्वाणः परितो रावणिस्ततः ॥ ४२ ॥ सारथिमित्यादि-- [--- तस्य रावणे: सारथिं चालुनात् छिन्नवान् । वादीनां ह्रस्वः। ७।३।८०' तथा स्यन्दनं रथम् अभनक् भग्नवान् । 'भजो आमर्दने' इति रुघादिः । ततोऽनन्तरं रावणिः इन्दजित् सौमित्रिं सुमित्रानन्दनं लक्ष्मण परितः समन्तात् बाणैर किरत् छादितवान् ॥ ४२ ॥ तावस्फावयतां शक्तीर्वाणांचा किरतां मुहुः । वारुणं लक्ष्मणोऽक्षिप्यदक्षिपद्रौद्रमिन्द्राजित् ॥ ४३ ॥ तावित्यादि-ताविन्द्रजिल्लक्ष्मणौ । शक्ति सामर्थ्यमस्फावयतां वर्धितवन्तौ स्वस्व पराक्रममतिशयेन दर्शितवन्तावित्यर्थः । 'स्फयो वः |७|३|४१ ।' बाणांश्च