पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/४९५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ] तिङ्क्राण्डम् । मा परिभूः | 'क्रम: मिथ्या मा स्म व्यतिक्रामो मच्छीलं मा न बुध्ययाः । सत्यं समभवं वंशे पापानां रक्षसामहम् ॥ ३६ ॥ मिथ्येत्यादि--मिथ्या मृषा मा स्म व्यतिक्राम: परस्मैपदेषु ।७। ३ । ७६।' इति दीर्घः । मच्छीलं मत्स्वभावं मा न बुध्यथाः' मा न बुद्धास्त्वम् अपि तु ज्ञातवानसि । '"मोत्तरे लङ् च | ३ | ३ | १७६ । पापानां रक्षसां वंशेऽहं सत्यं समभवं सम्भूत इति ॥ ३६ ॥ न त्वजायत मे शीलं तादृग्याहविपतुस्तव | क्षयावहेषु दोषेषु वार्यमाणो मयारमत् ॥ ३७ ॥ न स्वित्यादि – यद्यप्यहं राक्षसेकुले जातस्तथापि तव पितुर्यादृक् शी स्वभावस्तादृक् मे. न त्वजायत नैवाभूत् । यतोऽसौ क्षयमावहन्तीति क्षयावहाः । पचादित्वादच । तेषु दोषेषु परस्त्रीहरणादिषु मया वार्यमा- णोऽपि । दशग्रीव इति संबन्धः । आरमत् रतिं कृतवान् । 'व्याङ्परिभ्यो रमः । १ । ३ । ८३ ।' इति परस्मैपदम् ॥ ३७ ॥ दशग्रीवोऽहमेतस्मादत्यजं न तु विद्विषन् । परस्वान्यार्जयन्नारीरन्यदीयाः परामृशत् ॥ ३८ ॥ (४५७) दशग्रीव इत्यादि - - एतस्मात्कारणादहं रावणमत्यजं व्यक्तवानस्मि न अन्यैग्रहित- पुनर्द्विषन् अमित्रीभवन् दशग्रीवो रावणः । 'द्विषोऽमित्रे |३|२|१३१|' इति शतृप्रत्ययः । तान् दोषानाह- परस्वानि परवित्तानि आर्जयत् वान् । 'अजे सज अर्जने' इति भ्वादौ हेतुमण्णिच् । 'अर्ज प्रतियत्ने' इति चौरादिकस्य वा रूपम् । अन्यदीयाः नारीश्च परामृशत् स्पृष्टवान् । 'मृश आमर्शने' इति तुदादावुदात्तेत् ॥ ३८ ॥ व्यजिघृक्षत्सुरान्नित्यं प्रामाद्यद्गुणिनां हिते । आशङ्कत सुहद्धन्धूनवृद्धान्बहमन्यत ॥ ३९ ॥ व्यजिघृक्षदित्यादि---सुरान् नित्यं व्यजिघृक्षत् विग्रहीतुमैच्छत् तैः साकं वृथैवं कलहं युद्धं वा कर्तुम् आवर्त्ततेति भावः । गुणिनां माल्यवत्प्रभृ- तीनां यदुक्तं हितं तस्मिन् विषये प्रामाद्यत् प्रमादं गतः । 'मदी हर्षे' १ यद्यपि धनदस्य यो वंशः स एव रावणादीनामपीति न तथास्वे वंशदोषः सुघचः, किंतु मातापितृदोष एव, प्रकृते च मातृदोष एवापराधहेतुः, अन्यथा कुबेर- स्याषि तथात्वापत्तेः । इति सम्भाव्येदं समर्थनीयम् ।