पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/५०३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

● सर्गः ] 1 तिङ्काण्डम् । ( ४६५ ) अस्तुवन्नित्यादि --तमद्भुतकर्मकारिणं रामं देवा अस्तुवन् स्तुवन्ति स्म । प्लवङ्गमाः हनूमत्प्रभृतयः कपयः व्यस्मयन्त विस्मिताः । ङित्त्वात्तङ् । कपीन्द्रे सुग्रीवे प्रीतिरतन्यत तन्यते स्म । कर्मकर्तरि लङ् । पौलस्त्यो विभीषणो ऽद्भुतम् आश्चर्यममन्यत ज्ञातवान् ॥ ७० ॥ राक्षस्यः प्रारुदनुच्चैः प्राजुगुप्सन्त रावणम् । 'अमुह्यद्वालवृद्धं च समरौदितरो जनः ॥ ७१ ॥ राक्षस्य इत्यादि---राक्षस्यो भर्त्रादिवधदुःखिता उच्चैः प्रारुदन् रुदितवत्यः । 'रुदादिभ्यः सार्वधातुके।७।२।७६ | इतीट् न भवति अह्लादित्वात् । रावणं प्राजु- गुप्सन्त निन्दितवत्यः । एतद्दुर्नयात् सर्वमिति | बाला वृद्धाश्च तवयम् अमु- ह्यत् भयान्मोहं गतम् | इतरो जनः राक्षसीबालवृद्धेभ्योऽन्यः समरौत् आक्रुष्ट- वान् । रोदनं कृतवानित्यर्थः । 'रु शब्दे' 'उतो वृद्धिलुकि हलि 1७१ ३१८९॥ ॥७१ ॥ । सर्वतश्चाभयं प्राप्नोन्नैच्छन्नृभ्यस्तु रावणः । फलं तस्येदमभ्यायाद्दुरुक्तस्येति चाब्रुवन् ॥ ७२ ॥ सर्वत इत्यादि - सर्वतो देवादिभ्यः अभयं रावणः प्राप्नोत् प्राप्तवान् | यतो 'ब्रह्मणि वरं दातुमुद्यते देवादीनामवध्यो भूयासम्' इत्युक्तवान् । नृभ्यस्तु सकाशाद्भयं नैच्छन्नेष्टवान्, 'के देवा दिवीरविजेतुः मम पुरस्तात् मानुषाः' इति तस्य दुरुक्तस्य फलमभ्यायात् उपागतम् । इत्येवमपरे अब्रुवन उक्तवन्तः ।। ७२ ।। ततोऽधावन् महाघोरं रथमास्थाय रावणः । अक्ष्मायत मही गृध्राः समारार्यन्त भीषणाः ॥ ७३ ॥ तत इत्यादि- ततोऽनन्तरं महाघोरम् अतिभयङ्करम् रथमास्थायारुह्य रावणः योद्धुं वेगेनाधावत् । तस्य च धावतो मही अक्ष्मायत कम्पिता । 'क्ष्माय विधूनने' | गृध्राश्च भीषणा: समारार्यन्त अत्यर्थं गतवन्तः। 'सूचिसूत्रिमूत्र्यटथ- यशणतिभ्यो य वाच्यः' इत्यट्यत्यशूर्णोतीनां ग्रहणं यविधावनेका जहला द्यर्थमित्युपसंख्यानात् अर्यङ् । 'गुणोऽर्तिसंयोगाद्योः । ७।४।२९ । इत्याधिकृत्य 'यङि च |७|४||३०|' इति गुणः ॥ ७३ ॥ मेघाः सविद्युतोऽवर्षेश्चेलक्नोपं च शोणितम् । अवान् भीमा नभस्वन्तः प्रारुवन्नशिवाः शिवाः ॥ ७४ ॥ ३०