पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ] प्रकीर्णकाण्डम् । (११) चाभिसंधाय चतुर इत्युक्तं न तु त्रीनिति । पूङ् प्राणिगर्भविमोचने । 'स्वर- तिसूतिसूयतिधूनूदितो वा । ७ । २ । ४४ ।' इति विभाषिते ॥ १३ ॥ कौसल्ययाऽसावि सुखेन रामः प्राक्केकयीतो भरतस्ततोऽभूत् । प्रासोष्ट शत्रुघ्नमुदारचेष्टमेका सुमित्रा सह लक्ष्मणेन ॥ १४ ॥ कौसल्ययेत्यादि — कोसलस्य राज्ञोऽपत्यमिति 'वृद्धेतकोसलाजादाञ्ञ्यङ् । ४।४। १७१ ।' 'यङइचापू । ४ । १ । ७४ ।' कौसल्यया प्राक् प्रथमम् असावि रामो जन्यते स्म । पूङः कर्मणि लुङि चिणि रूपम् । सुखेनेति प्रकृ- त्यादित्वात्तृतीया । महतां जन्मनि न काचिदपि पीडास्ति । तदनन्तरं केक- यीतो भरतोऽभूत् । केकयानाचष्टेति णिच् । सा हीदृशास्तादृशाः केकया इति कथयति । तदन्तात् 'अच इः' इति इकारप्रत्यय औणादिकः । णिलोपः ‘कृदिकारादक्तिनः इति ङीष् । 'अपादाने चाहीयरुहोः । ५ । ४ । ४५ ।' इति तसिः । यदा च केकयस्यापत्यम् 'जनपदशब्दात्क्षत्रियादञ् । ४ । १ । १८६ । इत्यञ् ‘केकयमित्रयुप्रलयानां यादेरियः |७| ३ | २ । ' इत्तीयादेशः । 'टिड्ढा - णञ्द्वयसच्घ्नञ्मात्रच्तयप्ठठञ् कञ्चटरपः । ४ । १ । १५ ।। इति ङीपू । तदा कैकयीति द्वितीयं रूपम् । सुमित्रा शत्रुघ्नमुदारचेष्टम् । उदार चेष्टा यस्येति । प्रासोष्ट प्रसूतवती । कर्तरि लुङ् । ङित्त्वात्तङ् । जातमात्रस्य हि तस्य किल महासत्त्वतया तादृश्येव चेष्टाऽभूदिति श्रूयते । एकको॒ते । एकैवेति॒ि गम्यमानत्वादेवशब्दो न प्रयुक्तः । सह लक्ष्मणन लक्ष्मणेन सह ॥ १४ आर्चीद्दिजातीन्परमाऽर्थविन्दानुदेजयान् भूतगणान्न्यषेधीत् । विद्वानुपानेष्ट च तान्स्वकाले यतिवशिष्ठो यमिनां वरिष्ठः ॥ १५ ॥ आर्चीदित्यादि- तेषु जातेषु द्विजातीन्द्वे जाती येषामिति तान्ब्राह्मणक्षत्रि यवैश्यान्परमार्थविन्दान् । विन्तीति विन्दाः । 'विद्ल लाभे' इत्यस्मा- द् 'अनुपसर्गाल्लिम्पविन्दधारिपारिवेद्युदेजिचेतिसातिहेतिभ्यश्च । ३।१। १३८ । इति शः । मुचादित्वान्नुम् । परमार्थस्य विन्दाल्लाभिन इति कर्मणि षष्ठी | तस्या: 'कुद्योगा च षष्ठी समस्यत इति वक्तव्यम्' इति समासः तानाचत्लगादिभिः पूजितवान् । 'अर्च पूजायाम्' इत्यस्माल्लुङि सामर्ग्यजूरूपविद्या धर्मार्थकाममोक्षरूपान् चतुरः पुत्रान् तथेति ध्वन्यते । २ कथं तिसृणां चत्वारः पुत्रा उदपद्यन्तेति निर्देशार्थमस्यावतारणम् । १ यथा तिस्रः