पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/४८९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ] तिङ्काण्डम् | (४५१) प्रादुन्वन्नित्यादि--जानुभिस्तूर्ण प्रादुन्वन् पीडितवन्त: 'टुदु उपतापे ।' स्वादिः । तलकूर्परैः हस्ततलैः कैफोणिभिश्चातुदन् व्यथितवन्तः । अरिभिर्मु- तानि विविधानि यानि शस्त्राणि तानि प्राहिण्वन् प्रतिवन्तः ॥ १४ ॥ अतृणेट्छऋजिच्छ नभ्राम्यच्च समन्ततः । अध्वनञ्च महाघोरं न च कञ्चन नादुनोत् ॥ १५ ॥ अतृणेडित्यादि- ततः शक्रजिदिन्द्रजित् शत्रूनतृणेद् हिंसितवान् । तृहे: अम् । तस्य 'तृणह इम् |७|३|९२ | हङयादिलोप: । हकारस्य ढत्वजश्त्व- चर्त्वानि । समन्ततश्चाभ्राम्यत् भ्रान्तवान् । महाघोरं च भीषणं स्वनम् अध्नत्तवान्। कंचन नादुनोत् कंचिदपि न नोपतापितवान् अपि तु सर्वानपि पीडितवानित्यर्थः ॥ १५ ॥ •नाजानन्सन्दधानं तं धनुर्नेक्षन्त बिभ्रतम् । नेषूनचेतन्नस्यन्तं हतास्तेनाविदुषिः ॥ १६ ॥ नाजानन्नित्यादि – धनुषि शरं सन्दधानमारोपयन्तमिन्द्रजितं नाजानन् न ज्ञातवन्तः । धनुर्विभ्रतं नैक्षन्त धनुर्धारयन्तं न दृष्टवन्तः । इपून् शरानस्यन्तं क्षिप्यन्तं नाचेतन् हस्तलाघवात् न ज्ञातवन्तः । 'चिती सञ्ज्ञाने ‘ ङमो ह्रस्वादचि ङमुण् नित्यम् ||८||३|३२|| इति ङमुटु । तेन हताः सन्तो द्विवः अविदुः ज्ञातवन्तः पूर्वोक्तम् । 'सिजभ्यस्तविदिभ्यश्च ।३।४।१००। तर्जुस् ॥ १६ ॥ अशृण्वन्नन्यतः शब्दं प्रपलायन्त चान्यतः । आक्रन्दमन्यतोऽकुर्वैस्तेनाहन्यन्त चान्यतः ॥ १७ ॥ अशृण्वन्नित्यादि--अन्यतः अन्यस्मिन् प्रदेशे केचिद् द्विषः शब्दमट- ण्वन् । 'श्रुवः शृ च |३|१२|७४ |' इति भावः अनुप्रत्ययश्च । अन्यत्र स्थिताः लायन्त पलायिताः । अन्यतोऽन्यत्र प्रदेशे स्थिता: आऋन्दम् अकुर्वन रोदनं कृतवन्तः । अन्यतोऽन्यत्र तेनेन्द्रजिता अहन्यन्त व्यापादिताः । कर्मणि लङ् । सर्वत्राद्यादित्वात्तसिः ।। १७ ।। प्रालोठन्त व्यभिद्यन्त परितो रक्तमस्रवन् । पर्यश्राम्यन्नतृष्यंश्च क्षतास्तेनाम्रियन्त च ॥ १८ ॥ १ 'कफोणि कूर्परोऽरत्ने: पृष्टम् ।' इति नाममाला । अस्य 'कूर्णी' इति भाषायां असिद्धिः । २ प्रकोष्ठैरिति पाठान्तरे तु कूर्परस्ये प्रकोष्ठवाचित्वे प्रमाणं मृग्यम् ।