पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/४८८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(४५० ) भट्टिकाव्ये जयमङ्गलासमेते- [ सप्तदश:- आच्छेन्नित्यादि–निर्गच्छतां वामपार्श्व कृष्णमृगा आर्च्छन् गताः । अर्तेः ‘पाघ्राध्मास्थाम्नादाणूदृश्यर्तिसतिशदसदां पिबजिघ्रधमतिष्ठमनयच्छपश्य- च्छधौशीयसीदाः |७|३|७८ |' इति ऋच्छादेश: । 'ऋच्छ गतौ' इत्यस्य वा 'रूपम् । भटाच शस्त्राणां व्यस्मरन् विस्मृतवन्तः 'अधीगर्थदयेशां कम्मणि | २। ३ । ५२ ।' इति कर्मणि षष्ठी | वाजिकुञ्जरमस्विन्नमश्रान्तमपि रक्तं न्यष्ठवित् । ‘ष्ठिवु निरसने' इति भौवादिकस्य ग्रहणम् 'ष्ठिवुलमुचमां शिति । ७ । ३।७५ ।' इति दीर्घः । अक्लाम्यत् क्लान्तम् अविद्यत् खिन्नं च ॥ १० ॥ न तानगणयन् सर्वानास्कन्दंच रिपून् द्विषः | अच्छिन्दन्नसिभिस्तीक्ष्णैर भिन्दस्तोमरैस्तथा ॥ ११ ॥ न तानित्यादि----तान् सर्वानशुभान्नागणयन् नादृतवन्तः; किमेतैरिति । अपि तु रिपूनास्कन्दन् अभिगतवन्तः । द्विषो राक्षसास्तीक्ष्णैरसिभिररीन- च्छिन्दन् छिन्नवन्तः । तथा तोमरैस्तीक्ष्णैर भिन्दन् विदारितवन्तः ॥ ११ ॥ न्यकृन्तंश्चक्रधाराभिरतुदन् शक्तिभिर्हढम् । भल्लैरविध्यन्नुयायैरतृह॑स्तोमरैरलम् ॥ १२ ॥ न्यकृन्तन्नित्यादि--चक्रधाराभिः न्यकृन्तन् छिन्नवन्तः । 'शे मुचादीनाम् । ७ । १ । ५९ । इति मुचादित्वान्नुम् । शक्तिभिश्च दृढमत्यर्थमतुदन् व्यथितवन्तः । भल्लैरविध्यन् ताडितवन्तः । 'ग्रहिज्यावयिव्यधिवष्टिविचति- वृश्चतिपृच्छतिभृज्जतीनां ङिति च । ६ । १ । १६ ।' इति सम्प्रसारणम् । उग्राग्रैस्तीक्ष्णाप्रैस्तोमरैरलं पर्याप्तमतृहन् हृतवन्त: । 'तृह हिंसायाम् ।' ‘रुधादिभ्यःनम् ।३।१।७८।' इति रुधादित्वात् श्नम् | 'सोरल्लोपः ६|४||२३| इति अल्लोपे अनुस्वारः ॥ १२ ॥ आस्यन् प्लवङ्गमा वृक्षानधुन्वन् भूधरैर्भृशम् | अहिंसन् मुष्टिभिः क्रोधाददशन् दशनैरपि ॥ १३ ॥ आस्यन्नित्यादि – प्लवङ्गमा अपि वृक्षानास्यन् क्षिप्तवन्तः । 'असु क्षेपणे' । तथा भूधरैः पर्वतैर्भृशमधुन्वन् हृतवन्तः । 'अधूर्वन्' इति पाठान्तरम् । तत्र 'उपधायां ||२||२८|' इति दीर्घः । क्रोधान्मुष्टिभिरहिंसन् ताडितवन्तः। दशनैर्दन्तैरदशन् खादितवन्तः । 'दंशसञ्जस्वजां शपि । ६।४ । २५ । ' इत्यनुनासिकलोपः ॥ १३ ।। प्रादुन्वञ्जानुभिस्तूर्णमतुदंस्तलकूर्परैः । माहिण्वन्नरिमुक्तानि शस्त्राणि विविधानि च ॥ १४ ॥