पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/४८७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ] तिङ्काण्डम् । आनन् मेरीर्महास्वानाः कम्बूंश्चाप्यधमञ् शुभान् । अताडयन् मृदङ्गांश्च पेराश्चापूरयन् कलाः ॥ ७॥ आनन्नित्यादि - तस्मात् प्रवृत्ता: महास्वाना महान्तः स्वाना नादा महा- नादाः । 'स्वनहसोर्वा |३|३|६२ | इत्यबभावपक्षे 'भावे | ३|३|१८' इति घञ् । भेरी: आन्नन् ताडितवन्तः । वादका इत्यर्थात | शुभान् सुस्वरान् कम्बून् शङ्खानधमन् शब्दितवन्तः । 'पाघ्राध्मास्थाम्नादाण्दृश्यतसतिशदसदां पिबजि - प्रधमतिष्ठमनयच्छपश्यर्च्छधौशीयसीदाः |७|३२|७|' इति धमादेशः । मृदङ्गां- श्चाताडयन् आह्तवन्तः । 'तड आघाते' इति चुरादिः । पेरा: खरमुखाकारान् वाद्यविशेषान् कलाः श्रुतिमधुरस्वराः अपूरयन् ॥ ७॥ अस्तुवन् बन्दिनः शब्दानन्योन्यं चोदभावयन् । अनदन सिंहनादांश्च माद्रेकत हयद्विपम् ॥ ८ ॥ अस्तुवन्नित्यादि — बन्दिनः स्तुतिपाठका अस्तुवन् 'जय जीव' इत्यादिना स्तुतिं कृतवन्तः । अन्योन्यं अन्यस्य अन्यस्य च शब्दान् सांग्रामिकनामानि उद- भावयन् उद्घाटितवन्तः सैनिका इत्यर्थात् । सिंहनादांश्चानंदन शब्दितवन्तः । हयद्विपं 'विभाषा वृक्षमृगतृणधान्यव्यञ्जनपशुशकुन्यश्ववडव पूर्वापराधरोत्तरा- णाम् ||२|४|१२० |' इति पशुद्वन्द्वस्य विभाषैकवद्भावः । प्रादेकत शब्दितवत् 'द्रेकृ शब्दोत्साहे' इत्यनुदात्तेत् ॥ ८ ॥ (४४९) अनिमित्तान्यथापश्यन्नस्फुटद्रविमण्डलम् । - औक्ष शोणितमम्भोदा वायवोऽवान् सुदुःसहाः ॥ ९ ॥ अनिमित्तानीत्यादि - अनिमित्तानि कत्सितनिमित्तानि । नञत्र कुत्सायाम् । गच्छन्तोऽपश्यन् दृष्टवन्तः । तानि दर्शयाते ---रविमण्डलमस्फुटत् स्फुटितम्, अम्भोदा: शोणितमौक्षन् वृष्टाः 'उक्ष सेचने' । वायवः सुदुःसहा: प्रचण्डा अवान् वान्ति स्म । शाकटायनमतादन्यत्र उसादेशः ॥ ९ ॥ आर्च्छन् वामं मृगाः कृष्णाः शस्त्राणां व्यस्मरन् भटाः । रक्तं न्यष्ठीवदक्लाम्यदखिद्याजिकुञ्जरम् || १० || १ 'स्वाननिर्घोषनिदनादनिस्वाननिःस्वनाः ।' इत्यमरः । २' 'तत्सादृश्यं तदन्यत्वं तदल्पत्वं विरोधिता । अप्राशस्त्यमभावश्च नञर्थाः षट् प्रकीर्तिताः ॥” इति ननोऽप्राशस्त्यार्थ कस्वात् ।