भट्टिकाव्ये जयमङ्गलासमेते- [ सप्तदशः - आच्छादयन्नित्यादि-आच्छादयन् वस्त्राणि पिनद्धवन्तः । 'छद संव- रणे' चुरादिः । व्यलिम्पंश्च समालिप्तवन्तः । 'लिप उपदेहे' । 'शे मुचा- दीनाम् । ७।१।५९।' इति नुम् । 'नश्छव्यप्रशान् । ८ । ३ । ७ ।। इति रुत्वम् । पूर्वस्यानुनासिकः । अथानन्तरं सुराभिषं प्राश्नन् अभ्यवहृतवन्तः । मधुमाध्वकिं मध्वासेवं प्रापिबन सुष्ठु पीतवन्तः । भक्ष्यांश्च खण्डपायसादीन् यथेप्सितानादन् भक्षितवन्तः । अडित्यनुवृत्तौ 'अदः सर्वेषाम् |७|३|१००/- इत्यडागमः ॥ ३ ॥ (४४८) न्यश्यन् शस्त्राण्यभीष्टानि समनह्यंश्च वर्मभिः । अध्यासत सुयानानि द्विषद्भ्यश्चाऽशपस्तथा ॥ ४ ॥ न्यश्यन्नित्यादि — अभष्टाने यथानुभावितानि शस्त्राणि न्यश्यन् तेजित- वन्तः । 'शो तनूकरणे' | ‘ओतः श्यनि । ७ । ३ । ७१ ।' इत्योकार लोपः । वर्माभश्च कवचैः समनह्यन् संनद्धाः । शरीराण्यावृतवन्त इत्यर्थः । सुयानानि शोभनयानानि अध्यासत आरूढाः । 'अधिशी स्थासां कम | १४ | ४६ ।' इति कर्मसंज्ञा । तथा द्विषद्भ्योऽशपन् आक्रुष्टवन्तः 'पापाः क्व यास्यथ इति । 'श्लाघहूनुस्थाशपां ज्ञीप्यमानः ||१|४||३४|' इति सम्प्रदानसंज्ञा ॥ ४॥ अपूजयंश्चतुर्वक्रं विमानाचैस्तथाऽस्तुवन् । समालिपत शकारियनं चाऽभ्यलषद्वरम् ॥ ५॥ अपूजयन्नित्यादि-- चतुर्वकं ब्रह्माणमपूजयन् अर्चितवन्तः । विप्रानार्चन् दाननमस्कारादिना पूजितवन्तः । तथा अस्तुवन् परस्परं स्तुतवन्तः । शका- रिश्च इन्द्रजित समालिपत समालिप्तवान् । यानं वरमुत्कृष्टमभ्यलपत् अभी ष्टवान् । 'वा भ्राशभ्लाशभ्रमुऋमुक्कुमुत्रसित्रुटिलषः | ३|१|७० |' इति इयनो विकल्पितत्वात् पक्षे शप् ।। ५ ।। आमुञ्चद् वर्म रनाढ्यमंबनात् खड्गमुज्ज्वलम् | अध्यास्त स्यन्दनं घोरं प्रावर्तत ततः पुरः ॥ ६ ॥ आमुञ्चदित्यादि - रत्नाढ्यं रत्नप्रत्युप्तं वर्म कवचमामुञ्चत् शरीर आमु- क्तवान् पिनद्धवानित्यर्थः । खड्गं चोज्ज्वलमबध्नात् कक्षपार्श्वाश्रितं कृत- वान् । घोरं भीषणं स्यन्दनमध्यास्त आरूढः । ततोऽनन्तरं पुरः पुरतः प्राव - तत प्रवृत्तः ॥ ६ ॥ १ मदिरां मांस च । २ मधुरास्वादमासवम् । आसवोऽपि मद्यविशेषः ।
पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/४८६
दिखावट