(४५२ ) भट्टिकाव्ये जयमङ्गलास मेते- [ सप्तदश:- प्रालोठन्तेत्यादि---तेन क्षताः सन्तः केचिद्भमौ प्रालोठन्त । 'लुठ लोठने ।' भुवीतस्ततो व्यभिद्यन्त व्यनीयन्त, हताः सन्त इतस्ततो नीताः । कर्मणि लङ् । परितः समन्ताद्रक्तमस्रवन् मुक्तवन्तः । पर्यश्राम्यन् खिन्नाः । अतृष्यन् पिपासिता:। 'दिवादिभ्यःश्यन् |३||१|६९ | इति श्यन् । केचिदम्रियन्त | ‘म्रियतेर्लुङ्लङोश्च ।१।३।६१|' इति तङ् ॥ १८ ॥ सौमित्रिराकुलस्तस्मिन्ब्रह्मास्त्रं सर्वरक्षसाम् । निधनायाजुहूषत्तं व्यष्टनाद्रघुनन्दनः ॥ १९ ॥ S सौमित्रिरित्यादि --- तस्मिन् इन्द्रजिति तथाभूते सति सौमित्रिराकुलो व्यस्तचित्त: सर्वरक्षसां निधनाय ब्रह्मास्त्रमाजुहूषत् आह्वातुमैच्छत् । 'अभ्यस्तस्य च |६||१||३३|| इति अभ्यस्ताकारस्य ह्वयतेः प्रागेव द्विवचनात् सम्प्रसारणम् । तं च सौमित्रिं रघुनन्दनो रामः व्यष्टनात् निवारितवान् | 'मा भूद्विभीषणस्यापि नाश : ' इति । 'स्तम्भुस्तुम्भुस्कम्भुस्कुम्भुस्कुञ्ञ्भ्यः अनुश्च | ३| १ |८२ |' इति आप्रत्ययः । 'प्राक्सिताद्व्यवायेऽपि |८| ३ |६७ । इति मूर्धन्यः ॥ १९ ॥ ततो मायामयीं सीतां घ्नन् खङ्गेन वियद्गगतः । अदृश्यतेन्द्र जिद्वाक्यमवदत्तं मरुत्सुतः ॥ २० ॥ तत इत्यादि ---- ततोऽनन्तरम् इन्द्रजित् वियद्गतः आकाशगतः सीतां मायामयीं मायानिर्मितां खङ्गेन घ्नन् व्यापादयन्नदृश्यत दृष्टः । कर्मणि लङ् । तथाभूतं राक्षसं मरुत्सुतो हनूमान् वाक्यमवदत् भाषितवान् ॥ २० ॥ मापराध्नोदियं किंचिद्भ्रश्यत्पस्युरन्तिकात् । सीतां राक्षस मा स्मैनां निगृह्णाः पाप दुःखिताम् ॥ २१ ॥ मापरानोदित्यादि----हे पाप राक्षस ! सीता पत्युरन्तिकाभ्रश्यत अपगता । इयं भवतो नापराप्नोत् नापराद्धा | 'राध साध संसिद्धौ ।' इति स्वादौ । तस्मादेनां दुःखितां मा स्म निगृह्णाः मा वधीः । 'स्मोत्तरे लङ् च |३|३|१७६।' इति वर्तमाने लङ् ॥ २१ ॥ पीडाकरममित्राणां कर्तव्यमिति शऋजित् । अब्रवीत्खङ्ककृष्टश्च तस्या मूर्धानमच्छिनत् ॥ २२ ॥ १ समीपात् ।
पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/४९०
दिखावट