पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/४८४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(४४६) भट्टिकाव्ये जयमङ्गलासमेतें- [ पोडश:- |१|४|४६|' इति कर्मसंज्ञा । यादृशश्चाहं तादृशः संग्रामे ज्ञास्ये ज्ञातो भविष्यामि । कर्मणि लृट् । कैः समस्तैः शरमानिभिः वयं शूरा इत्या- त्मानं मन्यमानैः । 'आत्ममाने खश्च | ३|२|८३|| || ४ || ज्ञायिष्यन्ते मया चाद्य वीरम्मन्या द्विषद्गणाः । गृहिष्यामि क्षितिं कृत्तैरद्य गात्रैर्वौकसाम् ॥ ४१ ॥ ज्ञायिष्यन्त इत्यादि – एते च द्विषां गणाः शत्रुसङ्घा वीरंमन्याः अद्य मया ज्ञायिष्यन्ते परिच्छेत्स्यन्ते यादृशा इति । कर्मणि लट् | चिण्वदिट् | वनौकसां चनवासिनां कपीनां गात्रैः शरीरैः कृत्तैः छिन्नैरद्य क्षितिं गृहिष्यामि ॥ ४१ ॥ आरोक्ष्यामि युगान्तवारिघटासङ्घट्टधीरध्वनिं निर्यास्पन् रथमुच्छ्रितध्वजधनुः खड्ग प्रभाभासुरम् । श्रोष्यस्यद्य विकीर्णवृक्णविमुखव्यापन्नशत्रौ रणे तृप्ताञ्छाणितशोणभषणमुखान् ऋव्याशिनः क्रोशतः ॥ ४२ ॥ इति भट्टिप्रणीते रामचरितकाव्ये तिङन्तकाण्डे लडविलसितो नाम पोडशः सर्गः ॥ आरोक्ष्यामीत्यादि --अतोऽहं रथमारोक्ष्यामि निर्यास्यन् इतो निर्ग- च्छन् । आरोक्ष्यामीति क्रियायां क्रियार्थायामुपपदे निर्यास्यन्निति 'लट् शेषे च । ३।३ । १३ ।' इति चकारालट् । कीदृशं रथम् । युगान्ते प्रलयकाले या वारिघटास्तासां यः संघट्ट: परस्परसंमर्द: तस्येव धीरो गम्भीरो ध्वनिर्यस्य रथस्य | उच्छ्रिता ध्वजा: धनूंषि च यत्र । खड्गप्रभाभिश्च भासनशीलो यः । पञ्चाद्विशेषणसमासः । उच्छ्रितानां वा ध्वजादीनां प्रभाभिर्भासुर इति योज्यम् । विकीणी इतस्ततो विक्षिप्ताः वृक्णाः छिन्नाः छिन्नमस्तकाः विमुखाः पराङ्मुखा व्यापन्ना मृताः शत्रवो यस्मिन् रणे ऋव्याशिनः मांसभक्षणः शृगालादर्दान् क्रोशतः फूत्कुर्वतः अद्य ओष्यसि । कीदृ- शान् । तृप्तान् शोणितमांसोपभोगात् । शोणितेन शोणानि रक्तवर्णानि तत १ 'सूर्या श्वैर्मसजस्ततः सगुरवः शार्दूलविक्रीडितम् ।' इत्युक्तेः । अनुप्रासश्चा- लङ्कारः ।