सर्गः ] तिङ्काण्डम् । (४४५) नाभिज्ञेत्यादि-- हे महाराज ! ते तवं नाभिज्ञा न स्मृतिः । सुरालयं देवगणैराकीर्ण व्याप्तम् । आवां द्वावपि सह संभूय अभिज्ञावचने लृट् | ३|२|११२|' तत्र 'भूतानद्य- 6 जेण्यावः जितवन्तौ तने' इति वर्तते ॥ ३६ ॥ नाभिज्ञा ते सयक्षेन्द्र भक्ष्यावो यद्यम बलात् । रत्नानि चाहरिष्यावः प्राप्स्यावश्च पुरीमिमाम् ॥ ३७ ॥ नाभिज्ञेत्यादि- --न सेत्यभिज्ञास्ति । सयक्षेन्द्रं धनदसहितं यमं बलात् सामन आवां भक्ष्याव: भग्नवन्तौ । रत्नानि च ताभ्यां बलादाहरि- घ्यावः । इमौं च पुरीं लङ्कां प्राप्स्यावः । 'विभाषा साकाङ्क्ष |३|२|११४|१ इति लृट् । लक्ष्यलक्षणयोः सम्बन्धे प्रयोक्तुराकाङ्क्षा । तत्र भञ्जनं लक्षणं रत्नाद्याहरणं च लक्ष्यम् ॥ ३७ ॥ एष पेक्ष्याम्यरीन् भूयो न शोचिष्यसि रावण | जगद्रक्ष्यसि नीराममवगाहिष्यसे दिशः ॥ ३८ ॥ - एष इत्यादि - एषोऽहं भूयः पुनररीन् शत्रून् पेक्ष्यामि चूर्णयिष्यामि । 'वर्तमानसामीप्ये वर्तमानवद्वा । ३ । ३ । १३१।' इत्यनेन सामीप्ये वर्त्तमानिक- प्रत्ययस्य विकल्पेन विधानाल्लूडेव भवति । येन हे शोचिष्यसि शोक न करिष्यसि । भविष्यति लृट् । जगत् नीरामं रामरहितं द्रक्ष्यसि । दिशश्च सर्वा अवगाहिष्यसे व्याप्स्यसि ॥ ३८ ॥ सहभृत्यः सुरावासे भयं भूयो विधास्यसि । प्रणस्यत्यद्य देवेन्द्रस्त्वां वक्ष्यति स सन्नतिम् ॥ ३९ ॥ सहेत्यादि--भृत्यैः सह सुरावा से स्वर्गे भयो भयं विधास्यसि करि- व्यसि । देवेन्द्रश्च त्वां प्रणंस्यति 'त्वदीयोऽहम्' इति निवेदयिष्यति । वक्ष्यति च सन्नतिं भणिष्यति च नमस्कारम् ॥ ३९ ॥ • भेष्यते मुनिभिस्त्वत्तस्त्वमधिष्ठास्यसि द्विषः | ज्ञास्येऽहमद्य सङ्ग्रामे समस्तैः शूरमानिभिः ॥ ४० ॥ भेष्यत इत्यादि - - मुनिभिस्त्वत्तो भेष्यते भीतर्भवितव्यम् । भावे लृट् । त्वमधिष्ठास्यसिं द्विषः शत्रून् परिभविष्यसि । 'अधिशीस्थासां कर्म १ सुराणां देवानाम् आवासः स्थानं तत्र | २ अतिशयितम् ।
पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/४८३
दिखावट