पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/४८२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(४४४) भट्टिकाव्ये जयमङ्गलासमेते- [ षोडश:- प्रागित्यादि – योऽयमागामी प्रभातकाल: मुहूर्तद्वयसम्मितः तस्मिंस्त- स्येति षष्ठीसप्तम्योरभेदात् । यो द्वितीयो मुहूर्तः तस्मात् प्राक् प्रथमे मुहूर्ते अहमवश्यं सुखी भविष्यामि, तदानीं हतशत्रुत्वात् । ततः प्रभा- • तादागामी यः कालः क्षणद्वादशसंमितः तस्मिनागामिनि काले यो द्वितीयः तस्माद्यदपरः क्षण: पूर्वः तत्रेति वक्ष्यमाध्यैन सम्बन्धः || ३३ ॥ तत्र जेतुं गमिष्यामि त्रिदशेन्द्रं सहामरम् | ततः परेण भूयोऽपि लङ्कामेष्याम्यमत्सरः ॥ ३४ ॥ - तत्रेत्यादि – तत्र क्षणे त्रिदशेन्द्रं सहामरं देवै: सहितं जेतुं द्रुतं गमि- प्यामि । प्राङ् मुहूर्तात सुखीभविष्यामि । क्षणाद्यदपरं तत्र जेतुं गमि- ध्यामीति 'कालविभागे चानहोरात्राणाम् |३|३|१३७|' इति अनद्यतनवत् प्रत्ययप्रतिषेधे लृट् । तत्र हि 'नानद्यतनवत् क्रियाप्रबन्धसामीप्ययोः ॥ ३ ॥ ३ ॥ १३५|' इति 'भविष्यति मर्यादावचनेऽवरस्मिन् | ३ | ३ | १३६ || इति चानुवर्तते । तत्र जेतुं कालमर्यादाविभागे सति योऽवर आद्यप्रविभागः तत्र भविष्यति काले अनद्यतनवत्प्रत्ययविधिर्न भवति । ततो लट्प्रतिषेधाल्लुडेव भवति । ततः परेणेति यस्मिन्नागामिनि काले शक्रं जेतुं गमिष्यामि तत्र द्वितीयो यः क्षणस्तस्मात् परेणोपरिष्टात्तं शकं जित्वा भूयोऽपि लङ्कामेष्यामि । आङ्पूर्वस्येणो रूपम् । अमत्सरो विगतक्रोधः सन् । 'परस्मिन् विभाषा |३|३||१३८|| इत्यनेन विभाषा लुट्प्रतिषेधाल्लृट् । तत्र हि कालविभागे सति भविष्यति काले परस्मिन् विभाषा अनद्यतनवत्प्रत्ययविधिने भवतीत्युक्तम् ॥ ३४ ॥ तमेवंवादिनं मूढमिन्द्रजित् समुपागतः । युयुत्सिष्येऽहमित्येवं वदन् रिपुभयंकरः ॥ ३५ ॥ तमित्यादि-तं रावणं मूढत्वादेववादिनम् एवंभाषणशीलम् इन्द्रजित् रिपूणां अयंकरः समुपागतः । युयुत्सिण्येऽहं योद्धुमिच्छां करिष्यामीति ब्रुवन् ||३५|| केन सह योद्धुमिच्छामीति चेदाह -- नाभिज्ञा ते महाराज जेष्यावः शक्रपालितम् । हप्तदेवगणा कीर्णमावां सह सुरालयम् ॥ ३६ ।। १ 'वे तु मुहूर्तो द्वादशास्त्रियाम् ।' इत्यमरः । एवं च क्षणद्वयसम्मित इति व्याख्यानान्तरं तु न साम्प्रतम् | २ देवराजम् । 1