पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/४८१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ] तिङ्काण्डम् । (४४३) Sप्यमर्षे लिडपवादो लट् । 'नहो धंः । ८ । २ । ३४ ।' 'खरि च । ८/- ४।५५।' इति चर्त्वम् । ततश्चाद्यास्मिन्नहाने मांसादाः ऋव्यादाः तर्त्स्यन्ति तृप्ता भविष्यन्ति । 'अदोऽनन्ने । ३ । २ । ६८ ।' इति विटि प्राप्ते वासरूपविधिना अणंपि भवति । भूश्च हतानामरीणां शोणितं पास्यति । 'शेषे लट्, ।३।३।१५११ ॥ २९ ॥ आकर्ष्यामि यशः शत्रून पनेष्यामि कर्मणा । अनुभाविष्यते शोको मैथिल्याद्य पतिक्षयात् ॥ ३० ॥ आकर्यामीत्यादि- सर्वयोद्धृणां यश आकर्श्यामि आहरिष्यामि । शत्रूश्च कर्मणा युद्धाख्येनापनेष्यामि न्यूनयिष्यामि । अद्य पतिक्षयात्पतिवि- नाशात् शोको मैथिल्या सीतया अनुभाविष्यते संवेदयिष्यते । कर्माणि लट्, चिण्वदि ॥ ३० ॥ । मन्तूयिष्यति यक्षेन्द्रो वल्गूयिष्यति नो यमः । ग्लास्यन्त्यपतिपुत्राश्च बने वानरयोषितः ॥ ३१ ॥ मन्तूयिष्यतीत्यादि--यक्षेन्द्रो धनदः दाशरथिं राममापनं विपन्न श्रुत्वा मन्तूयिष्यति दुर्मना भविष्यति । यमश्च न वल्गूयिष्यति हृष्टमना भविष्यति । मन्तुवल्गुशब्दाभ्याम् 'कण्ड्डादिभ्यो यक् । ३ । १ । २७ ।’ तदन्तात् लट् । वने वानरयोषितः अपतिपुत्राः सत्यः ग्लास्यन्ति ग्लानिं यास्यन्ति ॥ ३१ ॥ सुखं स्वप्स्यन्ति रक्षांसि भ्रमिष्यन्ति च निर्भयम् । न विक्रोक्ष्यन्ति राक्षस्यो नराश्चात्स्यन्ति हर्षिताः ॥ ३२ ॥ सुखमित्यादि-रक्षांसि चैतानि सुखं स्वप्स्यन्ति निर्भयं च भ्रमिष्यन्ति । राक्षस्यश्च न विक्रोक्ष्यन्ति न ऋन्दिष्यन्ति । 'कुश आह्वाने रोदने च' । हर्षि - ताश्च सत्यो नरानत्स्यन्तिं भक्षयिष्यन्ति ॥ ३२ ॥ अथ युग्मकम् । प्राङ् मुहूर्तात् प्रभातेऽहं भविष्यामि ध्रुवं सुखी । आगामिनि ततः काले यो द्वितीयः क्षणोऽपरः ॥ ३३ ॥ १] यद्यपि मन्तुशब्दो न शोकपरः, 'आगोऽपराधो मन्तुश्च' इत्यमरोत्या 'मन्तुः पुंस्यपराधेऽपि मनुष्येऽपि प्रजापतौ ।' इति मेदिन्युक्त्या चापराधपर एव तथाऽपि लक्षणया विभाव्यः एवं वल्गुशब्दोऽपि ।