पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/४८०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(४४२) भट्टिकाव्ये जयमङ्गलासमेते- [ षोडशः - या इत्यादि-- सुहृत्सु स्निग्धेषु विपन्नेषु याः सम्पदा विभूतयः मामुपैष्य- न्ति निष्पत्स्यन्ते ताः मन्युक्षयाभोगाः शोकैः खण्डिताभोगाः किं विपत्सु न विपत्तयः क्षतक्षारसंस्थानीया भवन्तीति ॥ २५ ॥ विनयति पुरी क्षिप्रं तूर्णमेष्यन्ति वानराः | असन्धित्सोस्तवेत्येतद्विभीषणसुभाषितम् ॥ २६ ॥ विनयतीत्यादि - असन्धित्सो: रामेण सन्धानमनिच्छोः क्षिप्रमेषा पुरी लङ्का विनङ्क्ष्यति । 'मस्जिनशोर्झलि |७|१|६०|' इति नुम् । ततः तूर्ण वान- रास्तां समेष्यन्ति । उभयत्रापि 'क्षिप्रवचने लट् । ३ । ३ । १३३ ।' । तदे- तद्विभीषणभाषितं सर्वमुपपन्नम् | धर्म निर्णीय तेनोक्तं 'सन्धानमेवास्तु परैः” इत्यादिना ॥ २६ ॥ । अर्थेन सम्भृता राज्ञा न भाषिष्यामहे वयम् । संयोत्स्यामह इत्येत्महस्तेन च भाषितम् ॥ २७ ॥ अर्थेनेत्यादि --राज्ञा वयमर्थेन भृताः ततो न भाषिष्यामहे किमत्र युक्त - मिति एतत्प्रहस्तेन भाषितं तच्च तथैव सम्पादितम् । स्मशब्दोऽत्र निपातः । यद्यपीदृशं मन्त्रनिर्णये प्रहस्तेन नोक्तं 'सन्धान मेवास्तु परैः' इत्यादिना, तथापि विभीषणवचनादनुमीयते तेनाप्ययमर्थोऽभ्युपगत इति रावण एवमाह । तथा च विभीषणवचनं 'युद्धाय राज्ञा सुभृतैः' इत्यादि ॥ २७ ॥ मानुषो नाम पत्काषी राजानं पुरुषाशिनाम् । योधयिष्यति संग्रामे दिव्यास्त्ररथदुर्जयम् ॥ २८ ॥ मानुष इत्यादि - मामेवं दुर्जयं मानुषो नाम पत्काषी पादाभ्यां गमन- शीलः पदातिः सन् । 'हिमकाषिहतिषु च । ६ । ३ । ५४ ।। इति पादस्य पदा- देश: । पुरुषाशिनां रक्षसां राजानं दिव्यास्त्ररथतया दुर्जयं दुरभिभवनीयं योधयिष्यति ॥ २८ ॥ एवं बहुधा विलप्य जातामर्ष: पुनराह--- सन्नत्स्याम्यथवा योद्धुं न कोष्ये सत्त्वहीनवत् | अद्य तर्त्स्यन्ति मांसादा भू: पास्यत्यरिशोणितम् ॥ २९ ॥ सन्नत्स्यामीत्यादि --- सत्त्वहीनवत् सत्त्वेन हीन इवन कोण्ये न रोदिमि 'कु शब्दे' । यो सन्नत्स्यामि सन्नाहं करिष्येऽहमिति अत्र किंवृत्ते C