पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/४७९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ] - तिङ्काण्डम् । (४४१ ) अमर्ष इत्यादि --- अमेर्षः क्रोधः पर उत्कृष्टः मम यद्राघवः सीतां कामय- व्यते । कमेर्णिङन्तात् 'अनवक्कुप्टयमर्षयोरकिंवृत्तेऽपि । ३ । ३ । १४५ ।। इति अमर्षे क्रोधे ऌट् अन्यच्च च्युतराज्यात्तस्मात् रामादसौ सीता किं किल नाम सुखमवाप्स्यति तन्न सम्भावयामि । 'किंकिलास्त्यर्थेषु लट् | ३|३|१४६| इति अनवक्लप्तावसम्भावनायां लट् ॥ २१ ॥ मारयिष्यामि वैदेहीं खादयिष्यामि राक्षसैः । भूमौ वा निखनिष्यामि विध्वंसस्यास्य कारणम् ।। २२ ।। मारयिष्यामीत्यादि-अथवा अस्य सर्वस्य विध्वंसस्य विनाशस्य कारणं वैदेही मारयिष्यामि व्यापादयिष्यामि । एतैर्वा राक्षसैः खादयिष्यामि भोज- यिष्यामि । 'गतिबुद्धिप्रत्यवसानार्थशब्दकर्माकर्मकाणामणि कर्ता स णौ । १॥ ४ १५२।' इति प्रत्यवसानार्थे कर्मसंज्ञायां प्राप्तायाम् 'आदिखाद्योर्न' इति प्रतिषेधात् कर्तृसंज्ञेव भवति । भूमौ वा निखनिष्यामि ॥ २२ ॥ नानुरोत्स्ये जगल्लक्ष्मीं घटिष्ये जीवितुं न वा । न रस्ये विषयैः शून्ये भवने बान्धवैरहम् ॥ २३ ॥ नानुरोत्स्य इत्यादि - जगल्लक्ष्मी नानुरोत्स्ये न कामयिष्ये । अनुपूर्वी रुधिः कामे । जीवितुं वा न घटिष्ये प्रयत्नं न करिष्यामि । तस्माद्भवने बान्धवैः शून्ये विषयैः शब्दादिभिर्न रंस्ये न क्रीडां करिष्ये ॥ २३ ॥ मोदिष्ये कस्य सौख्येऽहं को मे मोदिष्यते सुखे । आदेयाः किंकृते भोगा: कुम्भकर्ण त्वया विना ॥ २४ ॥ मोदिष्ये इत्यादि --हे कुम्भकर्ण ! त्वया विना कस्य सौख्ये अहं मोदिष्ये हर्षिण्ये न कस्यचित् । मम वा सुखे सति को मोदिष्यते हृष्टो भविष्यति न कश्चिदपि । किंकृते किंनिमित्तं परभोगा आदेयाः आदातव्याः ॥ २४ ॥ तदेव दर्शयन्नाह -- याः सुहृत्सु विपन्नेषु मामुपैष्यन्ति सम्पदः । ताः किं मन्युक्षयाभोगा न विपत्सु विपत्तयः ॥ २५ ॥ १ ‘कोपक्रोधामर्षरोषप्रतिघा रुकुधौ स्त्रियौ ।' इत्यमरः ।