पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/४७८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(४४०) भट्टिकाव्ये जयमङ्गलासमेते- [ पोडश:- a इन्दोः स्यन्दिष्यते वह्निः समुच्छोक्ष्यति सागरः । भजलं धक्ष्यति तिग्मांशोः स्यन्त्स्यन्ति तमसां चयाः ॥ १७ ।। इन्दोरित्यादि--इन्दोः वह्निः स्यन्दिप्यते प्रस्रविष्यति । Ese: वृद्भथः स्यसनोः ११|३|९२|' इति परस्मैपदविकल्पः । सागर : समुच्छोक्ष्यति शोषं यास्यति । जलं धक्ष्यति भस्मसात् करिष्यति । 'दह भस्मीकरणे ' । 'हो ढः । ८।२।३१।१ " एकाचो बशे। भष् झषन्तस्य रध्वोः |८|२||२७|' इति भष्भावः । तिग्मांशोरा- दित्यात्तमसां चयाः तमःसङ्घाः स्यन्त्स्यन्ति । स्यन्दे: पूर्ववत्परस्मैपदविकल्पः । 'न वृभ्यश्चतुर्भ्यः |७|२|५९' | इतीप्रतिषेधः ॥ १७ ॥ कुम्भकर्णी रणे पुंसा क्रुद्धः परिभविष्यते । संभावितानि नैतानि कदाचित् केनचिजने ॥ १८ ॥ कुम्भकर्ण इत्यादि---कुम्भकर्णो रणे क्रुद्धः सन् पुंसा परिभविष्यते । कर्माणि ऌट् । एतानि भानुपतनादीनि कुम्भकर्णपरिभवान्तानि जने लोके केन- चित् न संभावितानि न चिन्तितानि ॥ १८ ॥ कुम्भकर्णे हते लङ्कामारोक्ष्यन्ति प्लवङ्गमाः । दमयन्ति राक्षसान् हप्ता भयन्ति च ममाश्रमान् ॥१९॥ कुम्भकर्ण इत्यादि--कुम्भकर्णे इत्थं ह्ते सति प्लवङ्गमा: लङ्कामारोक्ष्यन्ति आक्रमिष्यन्ति । ‘ रुह बीजजन्मनि' | राक्षसान् दक्ष्यन्ति दशनैः छत्स्यन्ति । ताश्च (ममाश्रमान् गृहान् भक्ष्यन्ति चूर्णयिष्यन्ति ॥ १९ ॥ चर्त्स्यन्ति बालवृद्धांश्च नर्त्स्यन्ति च मुदा युताः । तेन राक्षसमुख्येन विना तान् को निरोत्स्यति ॥ २० ॥ चर्त्यन्तीत्यादि---बालान् वृद्धांश्च चर्त्स्यन्ति व्यापादयिष्यन्ति । 'ती हिंसामन्थनयोः' इति तौदादिकः । मुदा हर्षेण युताः सन्तः नर्त्स्यन्ति । 'नृती गात्रविक्षेपे ।' 'सेऽसिचिकृतच तच्छ्रदतृदनृतः |७|२|५७१' इति विकल्पेनेट् | तेन च राक्षसमुख्येन विना तान् को निरोत्स्यति निवारयिष्यति ॥ २० ॥ अमर्षो मे परः सीतां राघवः कामयिष्यते । च्युतराज्यात्सुखं तस्मात् किं कलाऽसाववाप्स्यति ॥ २१ ॥