पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/४७७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ] तिङ्काण्डम् । (४३१ ) सनोरपि परस्मैपदविकल्पः । आत्मनेपदे च नेट्प्रतिषेधः । लङ्का च शत्रुभि रुपहनिष्यते विलोप्स्यते । कर्मणि लृट् | अचिण्वद्भावपक्षः । 'ऋद्धनोः स्य १७|२|७०।१ इतीट् । इह सुरैरागंस्यते । भावे लट् ॥ १२ ॥ मरिष्यामि विजेष्ये वा हताश्चेत्तनया मम । हनिष्यामि रिपुंस्तूर्णं न जीविष्यामि दुःखितः ॥ १३ ॥ मरिष्यामीत्यादि--- यदि मम रावणस्य तनया देवान्तकादयः हता: तदह मरिष्यामि, शत्रून् वा विजेष्ये । 'म्रियतेलुङ् लिङो |१|३|६१' | इति निय- मात्तङ् न भवति । उत्तरत्र 'विपराभ्यां जेः | १|३|१९| इति तङ् । ततो रिपून् तूर्णं हनिष्यामि । पुनर्बन्धु विनाकृतत्वात् दुःखितः सन् न जीविष्यामि ॥ १३ ॥ स्मेष्यन्ते मुनयो देवाः कथयिष्यन्ति चाऽनिशम् । दशग्रीवस्य दुर्नीतेर्विनष्टं रक्षसां कुलम् ॥ १४ ॥ स्मेष्यन्त इत्यादि — मुनयो हर्षात् स्मेष्यन्ते हसिष्यन्ति प्रमोदिष्य न्तीति भावः । ‘म्मिङ्’ ईषद्धसने ङित्त्वात्तङ् | देवा अनिशं कथयिष्य- न्ति । यथा दशग्रीवस्य दुतेर्दुर्नयात् रक्षसां कुलं विनष्टम् ॥ १४ ॥ केन सम्भावितं तात कुम्भकर्णस्य राघवः । रणे कर्त्स्यति गात्राणि मर्माणि च वितर्त्स्यति ॥ १५ ॥ केनेत्यादि–हे तातेति शोकात् बुद्धिस्थं पितरमभिमुखकिरोति केनै तत्सम्भावितं निश्चितम् । यत् कुम्भकर्णस्य गात्राणि रणे राघवः कर्त्स्यति छेत्स्यति । ‘कृती छेदने' । मर्माणि वितर्त्स्यति अपनेष्यति । 'उतृदिर् हिंसानादरयो:' 'सेसिचिकृतचृतच्छृदतृदनृतः । ७ । २ । ५७ ।' इती, ड्डिकल्पः ॥ १५ ॥ पतिष्यति क्षितौ भानुः पृथिवी तोलयिष्यते । नभस्वान् भक्ष्यते व्योम मुष्टिभिस्ताडयिष्यते ।। १६ ।। पतिष्यतीत्यादि - क्षितौ भूमौ भानुरादित्यः पतिष्यति अधो गमिष्यति पृथिवी तोलयिष्यते ऊर्ध्वं क्षेप्स्यते । 'तुल उन्माने' चुरादावदन्तेषु च पठ्यते। कर्माण लट् | नभवान् वायुः काष्ठवद्भक्ष्यते कर्मणि । मुष्टिभिव्यम ताडयिष्यते हनिष्यते ॥ १६ ॥ १ निरन्तरम् । 'सततानारताश्रान्तसन्तताविरतानिशम् ।' इत्यमरः ।