पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/४७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(४३८) भट्टिकाव्ये जयमङ्गलासमेते- [ षोडश:- उन्मीलिष्यतीत्यादि--मे मम चक्षुर्वृथा निष्फलमुन्मीलिष्यति । यद्य- स्मात् विनयागतं विनीतम् । आज्ञालाभोन्मुखम् । नम्रं नमनशीलम् । नरान्तकं पुत्रं न द्रक्ष्यति ॥ ८ ॥ घिङ मां त्रिशिरसा नाहं सन्दर्शिष्येऽद्य यत् पुनः । घानिष्यन्ते द्विषः केन तस्मिन्पञ्चत्वमागते ॥ ९ ॥ धिङ् मामित्यादि- हतबान्धवं मां रावणं धिक् । यत् त्रिशिरसा अद्य पुनरपि नाहं सन्दर्शिष्ये न दृष्टो भविष्यामि । कर्मणि लट् चिण्वदि च । तस्मिन् त्रिशिरसि पञ्चत्वैमागते मृते द्विषः शत्रवः केन धानिष्यन्ते । अत्रापि चिण्वदिट् च ॥ ९ ॥ शत्रुभिर्निहते मत्ते द्रव्येऽहं संयुगे सुखम् । युद्धोन्मत्ताद्विना शत्रून् समास्कन्त्स्यति को रणे ॥ १० ॥ शत्रुभिरित्यादि - मत्ते मत्तनाम्नि शत्रुभिर्निहते । तैरेवं शत्रुभिः संयुगे सङ्ग्रामे सुखमहं द्रक्ष्ये द्रष्टव्योऽस्मि पूर्वे भयादृष्ट: । अचिण्वद्भावपक्षे रूपम् । तस्य च भ्रातुर्युद्धोन्मत्ताद्विना रणे शत्रून् कः समास्कन्त्स्यति अभियास्यति । ‘स्कन्दिर् गतिशोषणयोः' । 'खरि च ||८|४||५५|' इति चवम् ॥ १० ॥ आह्रास्यते विशङ्को मां योत्स्यमानः शतक्रतुः । प्रकल्प्स्यति च तस्यार्थी निकुम्भे दुईणे हते ॥ ११ ॥ आह्वस्यत इत्यादि – शतक्रतुरिन्द्रः योत्स्यमानः युद्धं करिष्यन् विशङ्को निर्भयः मां युद्धायाह्वास्यते । 'स्पर्धायामाङः |१|३|३१|' इत्यात्मनेपदम् । निकुम्भे दुर्हणे दुःखेन हन्यत इति । 'ईषद्दुः सुषुकृच्छ्राकृच्छ्रार्थेषु खलू |३|३||२६|| इति खल । तस्मिन् हते तस्य शतक्रतोरर्थः निष्कण्टकराज्य- लक्षणः प्रकल्प्स्यते ॥ ११ ॥ कल्पिष्यते हरे: प्रीतिर्लङ्का चोपहनिष्यते । देवान्तक त्वया त्यक्तो रिपोर्यास्यामि वश्यताम् ॥ १२ ॥ कल्पिण्यत इत्यादि - शत्रुभिः कुम्भं च निपातितं श्रुत्वा हरेरिन्द्रस्य प्रीतिः कल्पिष्यते भविष्यति । 'लुटि च क्लृपः | १|३|९३|| इति चकारात्स्य- १ 'नमिकम्पिस्म्यजस कम हिंसदीपो रः | ३ | २ | १६७ |' इति रः | २ पञ्चत कालधर्मम् । यत्तूक्तं मेदिनीकरेण 'पञ्चता पञ्चभावे स्यान्मरणेऽपि च योषिति ।" इति तत् पञ्चतेति निर्देशाभिप्रायेणैव, नत्वजहल्लिङ्गत्वद्योतनार्थम् ।