पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/४७५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ] तिङ काण्डम् । (४३७) पितृक्रियोचिते कः पितॄन् प्रेष्यति तर्पयिष्यति । 'प्रीन् तर्पणे' । कृत्वा किंचित्कार्यम् । को न कत्थिष्यते कत्थनां न करिष्यति । 'अहमेवंविधः' इति । अतिकायाद्विनेति सर्वत्र योज्यम् ॥ ४ ॥ उद्यस्यति हरिर्वत्रं विचरिष्यति निर्भयः | भोक्ष्यते यज्ञभागांश्च शूरमानं च वक्ष्यति ॥ ५ ॥ उद्यस्यतीत्यादि- तथा हरिरिन्द्रः हन्तुं वज्रमुद्यस्यति उद्धारयिष्यति । उत्पूर्वाद्यमे रूपम् । निर्भयश्चेतस्ततो विचरिष्यति । यज्ञभागांश्चात्मीयान् भोक्ष्यते भक्षयिष्यति । 'भुनोऽनवने |१|३|६६ | इति तङ् | शूरमानं च 'शूरोऽस्मि' इति वक्ष्यति धारयिष्यति । वहे: 'हो ढः |८|२|३१|१|| 'पढोः कः सि ।८।२।४१।' इति कः ॥ ५ ॥ - रविस्तप्स्यति निःशङ्कं वास्यत्यनियतं मरुत् । निर्वर्त्स्यत्यतुसङ्घातः स्वेच्छयेन्दुरुदेष्यति ॥ ६॥ रविरित्यादि — रविः निःशङ्कं शङ्कां विना तप्स्यति द्योतिष्यते । मरुच्चा- नियतं स्वच्छन्दो वास्यति संचरिष्यति । 'वा गतिगन्धनयोः' । ऋतुसंघातः षडृतवः निर्वर्त्स्यति सर्वदा न भविष्यति । 'वृद्भथ: स्यसनोः ।१।३।१२।१ इति विकल्पः । 'न वृद्भयश्चतुर्भ्यः |७/२/५९।' इतीप्रतिषेधः । स्वेच्छयेन्दु- रुद्वेष्यति सदा पूर्णमण्डलो नोद्गमिष्यति । 'इण् गतौ' ॥ ६ ॥ तीव्रं स्यन्दिष्यते मेघैरुग्रं वर्तिष्यते यमः । अतिकायस्थ मरणे किं करिष्यन्ति नान्यथा ॥ ७ ॥ तीव्रमित्यादि - - मेघैस्तीव्रम् अतिशयेन स्यन्दिष्यते पूर्व रजःप्रशमनमात्रं वृष्टम् । भावे लट् । ‘न वृद्भयश्चतुर्भ्यः |७|२|५९| इती प्रतिषेधो न भवति, तत्र परस्मैपदग्रहण मनुवर्तते । यमः उग्रं वर्तिप्यते रौद्रं चरिष्यति । आत्मनेपदे नेट्प्रतिषेधः । अतिकायस्य मरणे सति इन्द्रादयः किमन्यथा विपर्ययं म करिष्यन्ति किन्तु करिष्यन्तीति भावः । 'किं पाठान्तरम् । तत्र सर्वमेतद्भविष्यतीत्यर्थः ॥ ७ ॥ भविष्यति नान्यथा' इति उन्मीलिष्यति चक्षुमें वृथा यद् विनयागतम् | आज्ञालाभोन्मुखं नम्र न द्रक्ष्यति नरान्तकम् ॥ ८ ॥