पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/४७४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भट्टिकाव्ये जयमङ्गला समे ते- षोडशः सर्गः । इतः प्रभृति लटमधिकृत्य विलसितमाह तत्र 'लट् शेषे च | ३ | ३ |१३| इति लट् । ततोऽन्यत्रापि दर्शयिष्यति । (४३६ ) ततः प्ररुदितो राजा रक्षसां हतवान्धवः | किंकरिष्यामि राज्येन सीतया किं करिष्यते ॥ १ ॥ [ षोडश:- तत इत्यादि - ततोऽनन्तरं रक्षसां राजा रावणः हतबान्धवः व्यापादित - भ्रातृत्वात् शोकाभिभूतः सन् प्ररुदितः ऋन्दितुमारब्धः । 'किं करिष्यामि' इत्यादिना । 'आदिकर्मणि तः कर्तरि च |३|४|७२१|| अतिकाये वीरे हते किं कारण्यामि राज्येन, न किंचित् । 'ऋद्धनोः स्ये | ८ | २ | ७० | १ इतीट् । सीतया च किं करिष्यते, न किंचित् ॥ १ ॥ अतिकाये हते वीरे प्रोत्सहिष्ये न जीवितुम् । द्वेषयिष्यति कः शत्रून्, केन जायिष्यते यमः ॥ २ ॥ किमन्यत्कर्तुम् । अतीत्यादि — वीरे अतिकाये हते जीवितुमेव नोत्सहे शक्तः पलायनेन कः हेपयिष्यति । 'अर्तिब्लीरीयीक्ष्माय्यातां पुणौ ॥७॥ २ । ३६ ।। इति णौ पुगन्तगुण: । केन यमः जायिष्यते । 'जि जये' । कर्मणि लट् । 'स्यसिच्सीयुट्तासिषु भावकर्म्मणोरुपदेशेऽज्झनग्रहदृशां वा चिण्वदिट् च | ६ । ४ । ६२ ।' इति चिण्वदि च ॥ २ ॥ अतिकायाद्विना पाशं को वा छेत्स्यति बारुणम् | रावणं मंस्यते को वा स्वयम्भूः कस्य तोक्ष्यति ॥ ३ ॥ अतीत्यादि - 'पृथगविनानानाभिस्तृतयिान्यतरस्याम् | २ | ३ | ३२ ।। इति पञ्चमी | अतिकायाद्विना वारुणं पाशं को वा छेत्स्यति द्विधा करिष्यति । को वा रावणं म॑स्यते पूजयिष्यति । स्वयंभूर्ब्रह्मा कस्य तोक्ष्यति प्रीतिं जनयिष्यति । 'तुष प्रीतौ' । 'पढोः कः सि |८|१|४११ ॥ ३ ॥ लाघिष्ये केन को बन्धून् नेष्यत्युन्नतिमुन्नतः । कः प्रेष्यति पितॄन् काले कृत्वा कत्थिष्यते न कः ॥ ४ ॥ लाधिष्य इत्यादि केनाहं लाघिष्ये श्लाघां करिष्यामि 'ममेदृशः पुत्रः' इति । कः स्वगुणैरुन्नतः सन् बन्धूनुन्नतिं परां कोटिं नेष्यति । काले