पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/४७३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ] तिङ्काण्डम् । समगत कपिसैन्यं सम्मदेनातिमात्रं विटपहरिणनाथः सिद्धिमौहिष्ट नित्याम् । नृपतिमतिररंस्त प्राप्तकामेव हर्षात् रजनिचरपतीनां सन्ततोऽतायि शोकः ॥ १२३ ॥ ( ४३५) इति श्रीमहावैयाकरणभट्टिप्रणीते रामचरिते काव्ये तिङ्काण्डे लुङ् विलसितो नाम पञ्चदशः सर्गः ॥ ॥ १५ ॥ समगतेत्यादि – प्रधानयोधा निहता इति सैम्मदेन हर्षेणातिमात्रमत्यर्थं समंगत संगतं कपिसैन्यम् । 'समो गम्यृच्छिभ्याम् | १|३|१९|| इति तङ् | ‘वा गमः |१|२|१३|' इति सिच: कित्त्वेऽनुवासिकलोपः । 'हस्वादङ्गात् ।८।२। २७ ।' इति सिचो लोपः । विटपरिणनाथः शाखामृगाणां नाथः नित्यां सिद्धिमवश्यं भाविनीमौद्दिष्ट तर्कितवान् । नृपतिमतिः राम- स्य बुद्धि प्राप्तकामेव संपन्नेच्छेव रावणवधसीतालाभयो: सिद्धिरूपत्वात् । हर्षादस्त रमते स्म । रजनिचरपतनां मेघनादादीनां शोकः सन्ततो- विच्छिन्नः अतायि वर्धते स्म । 'दीपजनबुधपूरितायिप्यायिभ्योऽन्यतरस्याम् |३|१||६१ |' इति कर्तरि चिणूं ॥ १२३ ॥ इति श्रीजयमङ्गलासूरिविरचितया जयमङ्गलाख्यया व्याख्यया समलंकृते श्रीभाट्टकाव्ये चतुर्थे तिङन्तकाण्डे लक्षणरूपे द्वितीयः परिच्छेदः, लक्ष्यरूपे कथानके 'कुम्भकर्णवधो' नाम पञ्चदशः सर्गः ॥ १५ ॥ १ 'मुत्प्रीतिः प्रमदो हर्षप्रमोदामोदसम्मदाः ।' इत्यमरः | २ अन्न 'ननमयययुतेयं मालिनी भोगिलोकैः ।' इति मालिनी छन्दः । उत्प्रेक्षा समासोक्तिश्चालङ्कारौ ।