पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/४७०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( ४३२ ) भट्टिकाव्ये जयमङ्गलासमेते- समनात्सीत्ततः सैन्यममार्जीद्भलतोमरम् । अमाक्षच्चासिपत्रादीनबभासत्परश्वधान् ॥ १११ ॥ समनात्सीदित्यादि- इ- ततः सैन्यं समनात्सीत् सन्नद्धम् । 'नहो धः | ८|२|३४|| इति धत्वम् । हलन्तलक्षणा वृद्धिः । भल्लतोमरममार्जीत शोधितवान् । मृजेरुदित्त्वादिट् पक्षे रूपम् । असिपत्रादीनमार्क्षीत् । इडभावे रूपम् उभयत्रापि 'मृजेवृद्धिः । ७ । २ । ११४ ।' परश्वधानबभासत् दीपितत्रान् 'भ्राजभासभाषदीपजीव मीलपीडामन्यतरस्याम् |७| ४ | ३ |' इति हस्वपक्षे रूपम् । अभासीच्चेति पाठान्तरम् । तत्रान्तर्भावितो व्यर्थः ॥ १११ ॥ [ पञ्चदशः - कुम्भकर्णसुतौ तत्र समनद्वां महाबलौ । निकुम्भश्चैव कुम्भश्च प्राप्तां तौ प्लवङ्गमान् ॥ ११२ ॥ कुम्भकर्णेत्यादि-कुम्भश्चैव निकुम्भश्च कुम्भकर्णस्य सुतौ महाबलौ तत्र सैन्येसमनद्धां सन्नद्धौ । तौ च प्लवङ्गमान् प्रापतां प्राप्तवन्तौ । लदित्त्वा - दुङ् ॥ ११२ ॥

अगोपिष्टां पुरीं लङ्कामगौप्तां रक्षसां बलम् | अत्याक्तामायुधानीकमनैष्टां च क्षयं द्विषः ॥ ११३ ॥ अगोपिष्टामित्यादि-लङ्कां च पुरीम् अगोपिष्टां रक्षितवन्तौ । गुपेरूदित्त्वा- दिपक्षे रूपम् । अगौप्तामितीडभावपक्षे रूपम् । हलन्तलक्षणा वृद्धिः । 'झलो झलि । ८।२।२६ ।। इति सिचो लोपः । आयुधानीकम् आयुधसमूहम त्याक्तां त्यक्तवन्तौ विसृष्टवन्तौ । 'त्यज हानौ' । पूर्ववद्धद्वृद्धिः सिचो लाप: । शत्रून् क्षयमनैष्टां नीतवन्तौ । 'सिचि वृद्धिः परस्मैपदेषु ।७।२।१।' इति वृद्धिः ॥ ११३ ॥ • अकोकृषिष्ट तत्सैन्यं प्रपलायिष्ट चाकुलम् | अच्युतच्च क्षतं रक्तं हतं चाध्यशयिष्ट गाम् ॥ ११४ ॥ - अकोकूयिष्टेत्यादि - तत् सैन्यं प्लवङ्गमानां भयादकोकूयिष्ट भृशं शब्द कृतवत् । 'कुङ् शब्दे' इत्यस्मात् यङचभ्यासस्य 'नवर्य |७|४|१३| इति कुङश्चुत्वप्रतिषेधः । ततो यङन्ताल्लङ् । प्रपलायिष्ट पलायते स्म । १ 'अनीकोऽस्त्री रणे सैन्ये' इति मेदिन्यायुक्त्यानी कशब्दस्य समूहावाचि- स्वेऽपि लक्षणया प्रकृतोऽर्थः समर्थनीयः । प्रयोजनं तु लक्षणाया भयातिशयद्योतन- रूपमेव ।