सर्गः ] तिङ्क्राण्डम् । (४३१) निरचायीत्यादि-यदा हनूमता ओषधीनां भेदोन निरचायि विशेषतो न निश्चितःतदा सर्व एव शैलःसहौषधिरोषधिसहितः समाहारि समानीतः ॥ १०७॥ प्राणिषुर्निहताः केचित् केचित्तु प्रोदमीलिषुः । तमोऽन्येऽहासिषुर्योधा व्यजृम्भिवत चापरे ॥ १०८ ॥ प्राणिपुरत्यादि- यदा ओषधिसन्निधात् ते निहताः केचिद्योधाः प्राणिषुः उच्छुसितवन्तः । केचित्तु प्रोदमीलिषुः उन्मीलितलोचना बभूवुः । अन्ये तमो मोहमहासिषुः त्यक्तान्तः । 'यमरमनमातां सक च | ८ | २ | ७३ ।” इति सगिटौ । तथान्येऽसिपुरिति पाठान्तरम् । ते तथाभूतमात्मानं दृष्ट्वा सविलासं हसितवन्तः । अपरे व्यजृम्भिषत जृम्भिकां कृतवन्तः । 'जृभि - जभी गात्र विनामे' इत्यात्मनेपदी ॥ १०८ ॥ अजिघ्रपंस्तथैवाऽन्यानोषधीरालिपंस्तथा । एवं तेऽचेतिपुः सर्वे वीर्य चाघिषताधिकम् ॥ १०९ ।। अजिघ्रपन्नित्यादि -- तथान्यान लब्धसंज्ञानोषधरजिघ्रपन् प्रोपितवन्तः । नासिकयाभ्यवहारितवन्त इत्यर्थः । 'गतिबुद्धिप्रत्यवसानार्थशब्दकर्म्मा- कर्मकाणामणि कर्ता सणौ । १ । ४ । ५२ ।। इति प्रत्यवसाने कर्मसंज्ञा । 'जितेर्वा |७|४||६|' इति कारः । तथालिपन् लिप्तवन्तः ह्वश्च वन्तः णौ चङयुपधाया हस्वः |७|४|१|' इत्य- अन्यानोषधीभिरित्यर्थात् । 'लिपिसिचि- ।३।१।५३|' इत्यङ् । एवमनेन प्रकारण सर्वेऽचेतिषुः संज्ञां लब्ध- । ‘चिती संज्ञाने ।। अधिकं च वीर्यमोषधिबलाधिषत दधति स्म । “स्थाध्वोरिच |१|४|१७|' इतत्विम् ॥ १०९ ॥ अजिह्रदत्स काकुत्स्थौ शेषांश्चाजीजिवत् कपीन् । हनुमानथ ते लङ्कामग्निनादीदिन् द्रुतम् ॥ ११० ॥ अजिङ्कददित्यादि - - एवं च सति हनूमान् काकुत्स्थावजिहदुत् ह्लादितवान् | ‘हादी सुखे' ण्यन्तः । शेषांश्च कर्पानिजीजिवत् जीवयति स्म । अथ ते जीविताः सन्तः लङ्कां द्रुतमदीदिपन्दीपितवन्तः । 'भ्राजभासभाषदीपजीवमी- लपीडाऽमन्यतरस्याम् | ७ | १४ | ३' इति हस्वपक्ष रूपम् ॥ ११० ॥ १ 'परौ भुवोऽवज्ञाने' इत्येतच्छा स्त्रघटकावज्ञानपद सामर्थ्य कल्पिततेन 'धातू- नामने कार्थत्वात्' इति वचनेन प्रकृते 'ना' धातोः प्रत्यवसानार्थत्वमादाय अस्य शास्त्र- स्य प्रवृत्तिः ।
पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/४६९
दिखावट