पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/४६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( ४३० ) भट्टिकाव्ये जयमङ्गलासमेते- [ पञ्चदश:- तस्बेत्यादि- --- तस्य हनुमतः क्षेमे जीवितत्वे सति हे महाराज ! अखिला: सर्व एव वयं नामृष्महिं न मृता इति । 'आशंसायां भूतवच्च |३|३||१३२|| इति लुङ् । एवमुक्तः पौलस्त्यो विभीषणः जीवन्तं पवनात्मजं हनु- मन्तं तमशिश्रवत् श्रावितवान् शृणोतेर्ण्यन्ताच्चङि सन्वद्भावे अभ्यासेव - र्णस्य 'स्रवतिशृणोतिद्रवतिप्रवतिप्लवतिच्यवतीनां वा । ७१४ । ८१ ।” इती- त्वपक्षे रूपम् ।। १०३ ।। B अथ द्वाभ्यां युग्मकम्- आयिष्ट मारुतिस्तत्र तौ चाप्यहृषतां ततः । प्राष्टां हिमवत्पृष्ठे सर्वौषधिगिरिं ततः ॥ १०४ ॥ आयिष्टेत्यादि ---- तत्र पौलस्त्येन विभीषणेन । आहूतो मारुतिरायिष्ट आग- तवान् । 'अय गतौ' आपूर्व: । ततोऽनन्तरं तो जाम्बवद्विभीषणौ अहृषातां हृष्टवन्तौ । ‘हृष तुष्टै|' पुषादिः । ततस्तौ हृष्टी हनुमन्तमिति वक्ष्यमाणेन सम्बन्धः । प्राष्टां प्रतिवन्तौ । 'सिचि वृद्धिः परस्मैपदेषु १७१२|१|’ ‘हि गतौ’ । हिमवत्पृष्ठे हिमवतः पृष्ठे । सर्वौषधिगिरिम् । सर्वा ओषधयो यस्मिन्निति ॥ १०४ ।। तौ हनूमन्तमानेतु मोषधीं मृतजीविनीम् ।। •सन्धानकरणीं चान्यां विशल्यकरणीं तथा ॥ १०५ ।। तावित्यादि- - या मृतं जीवयति या च क्षतस्य सन्धानं करोति तथा विशल्यं च यां करोति । 'कृत्यल्युटो बहुलम् |३|३|११३१ तामोषधी- मानेतुं प्राष्टामिति योज्यम् । 'ओषधेश्च विभक्तावप्रथमायाम् । ६।३। १३२|' इति दीर्घत्वम् ।। १०५ ।। प्रोदपाति नभस्तेन स च प्रापि महागिरिः । यस्मिन्नज्वलिषू रात्रौ महौषध्यः सहस्रशः ॥ १०६ ।। प्रोदपातीत्यादि ---- तेन हनूमता नभः प्रोदपाति उत्पतितम् । स च महा- गिरिस्तेन प्रापि प्राप्तः । कर्मणि लुङ् | यस्मिन् गिरौ महौषध्यः सहस्रशोऽ नेकधा रात्रावज्वलिषुः दीप्यन्ते स्म । 'अतो लान्तस्य । ७ । २ । २ । इति वृद्धिः ।। १०६ ॥ निरचायि यदा भेदो नौषधीनां हनूमता । सर्व एव समाहारि तदा शैलः सहौषधिः ॥ १०७ ॥