पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/४६७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तिङ्काण्डम् । अथ द्वाभ्यां युग्मकम् । विभीषणस्ततोऽबोधि सस्फुरौ रामलक्ष्मणौ । अपारीत्स गृहीतोल्को हतशेषान् प्लवङ्गमान् ॥ १०० ॥ विभीषण इत्यादि -- ततस्तस्मिन् काले विर्भाषण: रामलक्ष्मणौ सस्फुरौ चलन्तौ अबोधि बुद्धवान् जीविताविति । 'दीपजनबुधपूरितायिष्यायिभ्योऽन्य- तरस्याम् |३|१|६१।' इति कर्तरि चिण् । स्फुरणं स्फुरः । घञर्थे कविधानम् । यदुक्तम्' स्थास्नागाव्यधिहनियुध्यर्थ इति तदुपलक्षणं न परिगणनम् । स विभीषणः अन्धकारात् गृहीतोल्कः सन् हतशेषान् प्लवङ्गमानपारीत् 'मा भैष्ट इति प्रीणितवान् ।। १०० ॥ सर्म: ] (४२९ ) मा शोचिष्ट रघुव्याघ्रौ नामृषातामिति ब्रुवन् । अवाबुद्ध स नीलादीन् निहतान् कपियूथपान् ॥ १०१ ॥ मा शोचिष्टेत्यादि — यूयं मा शोचिष्ट शोकं मा कुरुत | 'माङि लुङ् |३४ ३।१७५ | यस्माद्रघुव्याघ्रौ नामृषातां न मृतौ इत्येवं ब्रुवन् अपारीदिति योज्यम् । ये च निहतास्तान्नीलादीन् कपियूथपान् स विभीषणः परिभ्रमन् अवाबुद्ध अवबुद्धवान् । एते हता इति । 'दीपजनबुधपूरितायिप्यायिभ्यो- ऽन्यतरस्याम् ।३।१।६१।' इति चिणो विकल्पितत्वादभावपक्षे रूपम् ॥ १०१ ॥ तत्रेषज्जाम्बवान् प्राणीदुदमीलीच लोचने | पौलस्त्यं चागदीत् कच्चिदजीवीन् मारुतात्मजः ॥ १०२ ॥ तत्रेत्यादि — तत्र तेषु जाम्बवान् ईषेन्मनाक् प्राणीत् उच्छुसिति स्म । ' अन प्राणने ।' 'अनितेः ||४|१९|' इति णत्वम् । लोचने च उदमी- लीतू उन्मीलितवान् । 'मील क्ष्मील निमेषणे' । पौलस्त्यं विभीषण- चागदीत् गदितवान् । 'गद व्यक्तायां वाचि' 'अतो हलादेर्लेघोः |७|२|७| इत्यवृद्धौ रूपम् । कच्चित् किं हनुमान् अजीवीत् जीवितवान् | न मृत इति भावः ॥ १०२ ॥ तस्य क्षेमे महाराज ! नामृष्माखिला वयम् । पौलस्त्योऽशिश्रवत्तं च जीवन्तं पवनात्मजम् ॥ १०३ ॥ १ 'किञ्चिदीषन्मनागल्पे' इत्यमरः ।