पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/४६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(४२८) भट्टिकाव्ये जयमङ्गलासमेते- [ पञ्चदश:- • जयावहम स्यन्दनं चालब्ध लब्धवान् । 'झलो झलि | ८ | २ | २६।१ इति सिचो लोपः ॥ ९६ ॥ तमध्यासिष्ट दीप्राप्रममोदिष्ट च रावणिः । छन्नरूपस्ततोऽकर्तीदेहान् रावणविद्विषाम् ॥ ९७ ॥ तमित्यादि --- तं स्यन्दनं दीप्राग्रम् उपरिभागस्य रत्नप्रत्युप्तत्वात् । अध्या- सिप्ट अध्यासितवान् । 'अधिशीस्थासां कम | १|४|४६ |' इति कर्मसंज्ञा । तत्रस्थश्च रावणिरिन्द्रजित् अमोदिष्ट हृष्टवान् । ततोऽसौ छन्नरूपः अदृश्य: सन् रावणविद्विषां वानराणां देहानकतत् छिन्नवान् । 'कृती छेदने ।’ ‘सेऽसिचि कृतचृतच्छृद्दनृतः ।७।२।५७७' इति सिचाऽन्यत्रेडिक- कल्प: । 'रावाणविद्विषाम्' इति पाठान्तरम् । तत्र देवान्तकादि- 'विद्विषामित्यर्थः ॥ ९७ ॥ . सप्तषष्टिं प्लवङ्गानां कोटीर्वाणैरसूपत् । निशान्ते रावणिः क्रुद्धो राघवौ च व्यमूमुहत् ॥ ९८ ॥ सप्तषष्टिमित्यादि-वानराणां कोटी: सप्तपष्टिं बाणैरसुपुपत् स्वापित- वान् व्यापादितवानित्यर्थः । स्वाञ्च |६||१|१८|' इति सम्प्रसारणम् । निशान्ते च निशावसाने रावणिः क्रुद्धः सन् राघवौ व्यमूमुहत् मोहितवान् 'मुह वैचिये ' णौ चङि रूपम् ॥ ९८ ॥ अपिस्फवत् स्वसामर्थ्यमगृहीत्सायकैर्दिशः । अवोरीच महाघोरं गत्वा प्रैषीच रावणम् ॥ ९९ ॥ अपिस्फवदित्यादि---ता मोहयित्वा आत्मीयं सामर्थ्यमपिस्फवत् वर्ध- यति स्म । 'ईशस्तशोऽहम्' इति । 'स्फायो वः । ७ । ३ । ४१ ।' इति णौ वत्वम् । दिश: सायकैरगृहीत् छादितवान् । 'नेटि | ७|१||४||' इति वृद्धिप्रतिषेधः । ह्यन्तत्वाद्वा । महाघोरं चातिरौद्रं शब्दमघोरीत् मुक्तवान् । गत्वा च लङ्कां रावणं प्रेषीत् प्रेषितवान् । 'गच्छ तत् ममाद्भुतपराक्रमं द्रष्टुम् इति । 'इषु गतौ' ॥ ९९ ॥ १ बाणैः । 'शरे खड्ने च सायकः ।' इत्यमरः । 'षोऽन्तकर्मणि' वुल्तृचौ ३|| १३३ ।' इति ण्वुल् । 'शायकैः' इति पाठे तु 'शो तनूकरणे इत्यस्य रूपम् । उभयन्त्र 'आतो युक् चिकृतोः ७ । ३ । ३३ । इति युक् ।