पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/४६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्ग: 1 तिङ्काण्डम् । • अबिभ्रजत् ततः शस्त्रमैषकिं राक्षसो रणे । तदप्यध्वसदासाद्य माहेन्द्रं लक्ष्मणेरितम् ॥ ९३ ॥ (४२७) - अबिभ्रजदित्यादि — ततोऽनन्तरं रावणिः ऐषीकमस्त्रम् । इषीकाया इदम् । तत्सर्वस्रोतःसु प्रविशत् जीवितमपहरति । रणे अबिभ्रजत् दीपित- वान् । 'भ्राजभासभाषदीपजीवमीलपीडामन्यतरस्याम् । ७ । ४ । ३ ।” इत्युपधाया ह्रस्वत्वम् । तदपि अध्वसत् ध्वस्तम् । ध्वसिधुतादिः । लक्ष्मणेरितं लक्ष्मणप्रेरितं माहेन्द्रमस्त्रमासाद्य तद्गतिरोधं कृत्वा ध्वंसयति ॥ ९३ ॥ स्म ततः सौमित्रिरस्मार्षीददोवष्ट च दुर्जयम् । ब्रह्मास्त्रं तेन मूर्धानमदध्वसन्नराराद्वेषः ॥ ९४ ॥ तत इत्यादि – अनन्तरं सौमित्रिः दुर्जयम् अनभिभवनीयं ब्रह्मास्त्र- मस्मार्षीत् स्मरति स्म । 'सिचि वृद्धिः परस्मैपदेषु |७|२|१|| तच्च स्मरणादुप- स्थितम् अदेविष्ट द्योतते स्म । 'तेव देव देवने' इत्यनुदात्तेत् द्योतने द्रष्टव्यः | देवनस्यानेकार्थत्वात् । तेन च ब्रह्मास्त्रेण प्रयोजककर्त्रा नरैद्विषो राक्षसस्य मूर्धानमदध्वंसत् पातित्तवान् सौमित्रिः | हेतुमण्ण्यन्ताच्चङि रूपम् ॥ ९४ ॥ ततोऽऋन्दी दशग्रीवस्तमाशिश्वसदिन्द्रजित् । " चडि निरयासीच्च संक्रुद्धः प्रार्चितञ्च स्वयम्भुवम् ॥ ९५ ॥ तत इत्यादि -- ततः सुतमरणानन्तरं दशग्रीवः अऋन्दीत् रादिति स्म तं च क्रन्दन्तमिन्द्रजिदाशिश्वसत् आश्वासितवान् । 'मयि जीवति किं वृथा जनवद्रोदिषि' इति । हेतुमण्ण्यन्तस्य चाड रूपम् । संक्रुद्धश्च निरयासीत् । रावणगृहान्निर्गतः । ‘या प्रापणे' । निर्गत्य च स्वगृहे स्वयम्भुवं ब्रह्माणं प्रार्चिचत् पूजितवान् । 'अर्च पूजायाम्' इति चुरादिः । |६|१||११|' इति अजा दिद्विवचनम् ॥ ९५ ॥ अहौषीत्कृष्णवर्त्मानं समयष्टास्त्रमण्डलम् । सोऽलब्ध ब्रह्मणः शस्त्रं स्यन्दनं च जयावहम् ॥ ९६ ॥ अहौषीदित्यादि--कृष्णवर्त्मानमग्निमहौषीत् हव्येन प्रीणितवानित्यर्थः । अत्रमण्डलम् आयुधग्रामं समयष्ट पूजितवान् । स इन्द्रजित् ब्रह्मणः सकाशात् १ प्रकृतानुगुण्यमपेक्ष्येदमुक्तम् | २ नरान्तकस्य | ३ 'बर्हिः शुष्मा कृष्णवर्मा ' इत्यमरः ।