पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/४७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ] ! तिङ्काण्डम् । ( ४३३ ) अजादेरङ्गस्य । ‘आडजादीनाम् |६|४ | ७२ |' इत्याट् प्रपरयोरनङ्गत्वाच्च । 'उपसर्गस्यायतौ |८|२|१९|' इति लत्वम् । क्षतं च खण्डितं च सत् रक्तमच्युतत् क्षरति स्म । 'इरितो वा | ३|१|५७ |' इत्यङ् | हतं च निहतं सत् गामध्यशयिष्ट भूमौ पतितम् । 'अधिशीस्थासां कर्म्म | १ | ४ | ४६ । इति कर्मसंज्ञा ॥ ११४ ॥ अङ्गदेनाहसातां तौ युध्य कम्पनकम्पनौ । अभ्यार्दीद्वालिनः पुत्रं प्रजङ्घोऽपि समत्सरः ॥ ११५ ॥ अङ्गदेनेत्यादि-अकम्पनः कम्पनश्च तौ । ज्येष्ठत्वात् पूर्वानपातः । युधि संग्रामे अङ्गदेन अहसाताम् । कर्मणि लुङ् । 'आत्मनेपदेष्वन्यतरस्याम् । २|४|४४|' इति वधादेशाभावपक्षे रूपम् । प्रजङ्घो नाम राक्षसः सम त्सरः सक्रोधः वालिनः पुत्रमभ्यार्दीत् प्रहृतवान् । अर्द हिंसा- याम्' ॥ ११५ ॥ 6 तस्याप्यबेभिदिष्टासौ मूर्धानं मुष्टिनाङ्गदः । अहार्षीच शिरः क्षिप्रं यूपाक्षस्य निराकुलः ॥ ११६ ॥ तस्यत्यादि–तस्य प्रजङ्घस्यापि मूर्धानमसावङ्गदो मुष्टिनाबेभिदिष्ट अत्यर्थं भिन्नवान् । भिदेर्यङन्तस्य 'यस्य हलः ||६|४|४९।' ‘अतो लोपः।६।४।४८।' इति यलोपे रूपम् । निराकुलश्च नाम वानरः यूपाक्षस्य राक्षसस्य शिरः क्षिप्र- महार्षीत् छिन्नवान् ॥ ११६ ॥ शरीरं लोहिताक्षस्य न्यभाङ्क्षीह्विविदस्तदा । क्रुद्धः कुम्भस्ततोऽभैत्सीन्मन्दं सद्विविदं शरैः ॥ ११७ ॥ शरीरमित्यादि-द्विविदो नाम वानरो लोहिताक्षत्य शरीरं न्यभाङ्क्षीत् चर्णितवान् । ‘भञ्जो आमने' ततोऽनन्तरं कुम्भः कुम्भकर्णसुतः मैंन्दं वानरं सद्विविदं द्विविदेन सह शरैर मैत्सीत् भिन्नवान् ॥ ११७ ॥ अथ युग्मकम् । आघूर्णिष्टां क्षतौ क्ष्मां च तावाशिश्रियतामुभौ । 2 मातुलौ विलौ दृष्ट्वा कुम्भं वालिसुतो नगैः ॥ ११८ ॥ आचूर्णिष्टामित्यादि- तावुभौ क्षती आघूर्णिष्टां चक्रवद् क्ष्मां भूतलं चाशिश्रियताम् आश्रितवन्तौ । भूमौ पतितावित्यर्थः । ‘णिश्रिद्रुस्रुभ्यः भ्रान्तौ । १ शिर इत्यर्थ: । 'मूर्धाना मस्तकोऽस्त्रियाम् ।' इत्यमरः । २८