पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ] प्रकीर्णकाण्डम् । (९) पुत्रीयतेत्यादि-पुत्रीयताऽऽत्मनः पुत्रमिच्छता । इच्छायाम् ' सुप आत्मनः क्यच् । ३ । १ । ८ । ' इति क्यच् । 'क्यचि च । ७ । ४ । ३३ । ' इतीत्वम् । तेन राज्ञा प्रयोजककर्त्रा वराङ्गनाभिर्वरस्त्रीभिः प्रयोज्यकर्त्रीभिरानायि स्त्रां पुरमिति योज्यम् । ‘नीवह्यो: ' इत्यादेरपि 'अकथितं च । १ । ४ । ५१ ।१ इति चकारेण संगृहीतत्वान्नयतिर्द्विकर्मकः । तत्र प्रधानकर्मणि लुङ् | चिण्णि- लोपौ 'चिणो लुक् । ६ । ४ । १०४ । इति तशब्दस्य लुक् । गुणकर्मणि तु पुर्- मिति द्वितीया । गतिबुद्धिप्रत्यवसानार्थशब्दकमकर्मकाणामणि कर्ता स णौ । १ । ४ । ५२ । इति प्रयोज्यकतीरे द्वितीया न भवति । ‘नीवह्योः प्रतिषेधः' इति वचनात् । विद्वान् वेदार्थतत्त्ववित् । एवं च कृत्वा ऋतुषु क्रियावान्प्रशस्तक्रियः । प्रशंसायां मतुप् । विपक्त्रिमज्ञानगतिरिति विपाकेन निर्वृत्तम् । पचतेः क्त्रिः क्त्रेर्मप् । यत्पूर्वजन्मकृतमनिवर्तनीयं कर्म तस्योग्रतपःप्रत्ययाद्विनोपदेशाज्ज्ञानात्प्रवृत्तिर्बुद्धावस्य जातत्यर्थः । मनस्वी प्रशस्तमनाः । प्रशंसायाम् ' अस्मायामेधास्रजो विनिः । ५ । २ । १२१ । ' इति विनिः । मान्यो मानार्हः । ' अर्हे कृत्यनृचश्च । ३ । ३ । १६९ ।” इति ण्यत् । धर्मादिमननान्मुनिः । 'मनेरुच्चोपधायाः' इति इन् । उपधाया उकारः । ऋष्यस्य शृङ्गमृष्यशृङ्गं तच्छृङ्गमिव शृंगं यस्य स ऋष्यशृङ्गः | 'सप्त- 'म्युपमान -' इत्यादिनोत्तरपदलोपी समासः ॥ १० ॥ ८ ऐहिष्ट तं कारयितुं कृताऽऽत्माऋतुं नृपः पुत्रफलं मुनीन्द्रम् । ज्ञांताऽऽशयस्तस्य ततो व्यतानीत् स कर्मठः कर्म सुताऽनुबन्धम् ॥ ११॥ ऐहिष्टेत्यादि-तं मुनीन्द्रं ऋतुं कारयितुं नृप ऐहिष्ट ईहितवान् । ईहतेरात्मने- पदिनो लुङि सेत्वादिटि च रूपम् । द्विकर्मकता तु 'हृक्रोरन्यतरस्याम् ॥१॥४॥५३॥ इति । कृतात्मा वशीकृतात्मेति भावः । पुत्रफलं पुत्रः फलं कार्य यस्य ऋतोः । तत उत्तरकालम् । स मुनिः परचित्तज्ञत्वाज्ज्ञाताशयो ज्ञाताभिप्रायो राजाभि- मतं कर्म कारयितुं तस्य नृपस्य कर्म व्यतानीत्प्रारब्धवान् । तनोतेः ‘नेटि | ७|२|४|' इति हलन्तलक्षणायां प्रतिषिद्धायाम् 'अतो हलाल॑घोः । ७।२।७’ इति विभाषा वृद्धिः । कर्मठः कर्मणि घटते 'कर्मणि घटोऽठच् । ५ । २ । ३५ ।। इत्यठच् यागक्रियानिष्पादक इत्यर्थ: । सुतानुबन्धं सुताननुबनातीति कर्म- ण्यण् । 'सुतानुबन्धि' इति पाठान्तरम् । सुताननुबद्धं शोलमस्येति । 'सुप्य- जातौ णिनिस्ताच्छलिये | ३ | २ | ७८ ।' सुपीत्यनुवर्तमाने सुब्रग्रहणमुपसर्ग • १ पुत्रफलमिति भावः ।