पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(८) भट्टिकाव्ये जयमङ्गलासमेते- [ आद्यः तामध्यास्त । गृह इति 'हेकः | ३ | १ | १९४४' इति कः तत्र गृहशब्दो वैश्मनि - नपुंसकलिंगः । तत्स्थायिषु पुँल्लिंगो नित्यं बहुवचनान्तः ॥ ७ ॥ अन्तर्निविष्टोज्ज्वलरत्नभासो - गवाक्षजालैरभिनिष्पतन्त्यः । हिमाऽद्भिटङ्कादिवै भान्ति यस्यां गङ्गाम्बुपातप्रतिमाँ गृहेभ्यः॥८॥ अन्तरित्यादि - अन्तर्गृहमध्ये निविष्टधान निहितान्युज्ज्वलरत्नानि यानि तेषां भासो रश्मयो गृहेभ्यो गवाक्षजालैरभिनिष्पतन्त्यो निर्गच्छन्त्यो यस्यां भान्ति तामध्यास्तेति योज्यम् । पर्वतस्योन्नतप्रदेशष्टङ्क इत्युच्यते । तस्माद्धि- मवत्पर्वतटङ्कादिव गङ्गापातप्रतिमा गंगाजलप्रवाहतुल्याः, स्वच्छत्वार्ते ॥ ८॥ धर्म्यास कामाऽर्थयशस्करीषु मतासु लोकेऽधिगतासु काले । विद्यासु विद्वानिव सोऽभिरेमे पत्नीषु राजा तिसृषूत्तमासु ॥ ९ ॥ धर्म्यास्वित्यादि–धर्मादनपेतासु । 'धर्मपथ्यथन्यायाद्नपेते । ४ । ४ । २९ ।' इति यत् । कामार्थयशांसि कर्तुं शीलं यासां तासु । कृनो हेतु- ताच्छील्यानुलोभ्येषु |३|२|२०|' इति ताच्छील्ये टः । 'अतः कृकमिकंस- कुम्भपात्रकुशाकर्णीष्व नव्ययस्य |८|३|४६ || इति विसर्जनीयस्य सत्वम् 1 टित्त्वान्ङीप् । मतासु पूजितासु लोके तासां प्रतीतत्वात् । आधिगतासु काले विवाहयोग्ये काले परिणीतासु । सोऽभिरेमे स राजाऽभिरतवान् । पत्नीषु 'पत्र्नो यज्ञसंयोगे |४|१|३३॥ इति नकारः | तिसृषु कौसल्या कैकेयीसु- मित्रासूत्तमाण्विति सन्नारीगुणैः श्रेष्ठासु । विद्यास्विति विदन्त्याभिर्धर्माव- विति 6 विद्याः सञ्ज्ञायां समजनिषदनिपतमनविदपुञ्शीभृत्रिणः |३|३|९९' इति क्यप् | तिसृषु सामर्ग्यजुराख्यासु | धम्यिस्वत्यादिकं तुल्यम् | विद्वानिव यथाधिगतविद्य इत्यर्थः । विदेः शतुर्वसुः |७|१||३६ | दीर्घः हल ङ्यादिसंयोगान्तलोपाः ॥ ९ ॥ 1 तस्य राज्ञः पत्नीभिस्ताभिः सह रममाणस्य सुता नैवासन् | ऋष्यशृंगनामा मुनिः पुत्रीयं ऋतुं जानातीति पुरोधसो वशिष्ठादुपश्रुत्य राज्ञा वारविला. सिनीभिरानायितो मुनिरित्येतत्कथयितुमाह- पुत्रीयता तेन वराङ्गनाभिरानायि विद्वान् ऋतुषु क्रियावान् । विपक्रिमज्ञानगर्मिनस्वी मान्यो मुनिः स्वां पुरसृष्यशृङ्गः ॥१०॥ १ अत्रोपमाऽलङ्कारः | २ अत्रोत्प्रेक्षा | ३ अत्रोपमा | ४ अनोपमा । ५ इदं न केवलं ऋतुषु तस्य क्रियावत्वं, किं तु कर्मान्तरेष्वपि तदिति सूचयति ।