पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ] प्रकीर्णकाण्डम् । (७) निर्माणेत्यादि-पद्मासनो ब्रह्मा | पद्मासनं यस्येति कृत्वा । तस्य कौशलं नैपुण्यमिति षष्टीसमासः । तस्य ' पूरणगुणसुहितार्थसदव्ययतव्यसमा- नाधिकरणेन । २।२ ११' इति न प्रतिषेधः । तत्र विशिष्टा एव गुणा रूपरस- गन्धस्पर्शास्तद्विशेषाश्च शुक्लनीलादयः कटुकाम्लादयः सौरभ्यादयः शीतोष्णा- दयश्च गृहीताः । तत्र रूपादिभिः समासो भवत्येव । 'तत्स्थैश्च गुणैः षष्ठी समस्यते न तु तद्विशेषगुणैः ।' इति वचनात् । अन्यैस्तु समासप्रतिषेधः । [ एवं च कृत्वा मुनित्रयवचनमर्थवद्भवति । तद्यथा ' अधिकरणैतावत्त्वे च | २|४|१५|' 'तदशिष्यं सञ्ज्ञाप्रमाणत्वात् |१|२|५३' इति पाणिनेः, 'युगपद्दे- शपृथक्त्वदर्शनात्' इति 'रूपसामान्याद्वा' इति वचनप्रामान्यादिति चेदलोपप्रति- षेघः' इति कात्यायनस्य, 'नकारग्रहणसामर्थ्याल्लोपो न भविष्यतीति किं पुनरत्रार्थ - सत्तत्वम्, इति भाष्यकारस्येति ] तस्य सीमेव मर्यादेवायोध्या । ततो न सृष्टचन्तरं शोभनमस्तीत्यर्थः । कीदृशस्य । निर्माणदक्षस्य । निर्मितिर्निर्माणं सृष्टिस्तत्र दक्षस्य पटोः । क्व विषयेषु । समीहितेषु । स्रष्टुमीप्सितेष्वित्यर्थः । ऊर्ध्वमुपरिष्टात्स्फुरद्रलगभस्तिभिः स्फुरन्तो ये रत्नानां गभस्तयो रश्मयस्तैर्हासभूवै- र्मघोन इन्द्रस्य पुरममरावतीमवहस्येव स्थिता या, तामध्यास्त । 'मघवन्श्वन् उक्षन्’इत्यौणादिकः।‘श्वयुवमघोनामतद्धिते । ६।४।१३३|' इति सम्प्रसारणम्॥६॥ सद्रत्नमुक्ताफलवज्रभाञ्जि विचित्रधातूनि सकाननानि । स्त्रीभिर्युतान्यप्सरसामिवधैरोः शिरांसीव गृहाणि यस्याम् ॥ ७ ॥ सद्रनेत्यादि - सन्ति शोभनानि यानि रत्नादीनि तानि भजन्ते यानि गृहाणि तानि सद्रलमुक्ताफलवज्रभाजि । मुक्ताफलवज्रयो रत्नान्तर्भावेऽपि प्राधान्य- ख्यापनार्थं वचनम्, गोबलीवर्दन्यायाद्वा । रत्नशब्देन मरकतपद्मराग वैदूर्यादयो गृह्यन्ते । सद्रनादि- 'युजि' इति पाठान्तरम् । 'युजेरसमासे |७|१||७|| ' इति प्रतिषेधो न भवति, अनपुंसकविषयत्वात् नपुंसके , तु तल्लक्षणस्य मो विधानात् । विचित्रधातूनि विचित्रा नानाप्रकारा धातवो मनःशिलादयो येषु गृहेषु तेषां विरचितचित्रकर्मत्वात् । सकननानि सोद्यानानि । स्त्रीभिर्युतान्यप्सर सामिवघैस्तत्रत्याभिः स्त्रीभिरप्सरोभिरिवे- त्यर्थः । मेरोः शिरांसीव मेरो: शृंगाणीव एवंविधानि गृहाणि यस्यामयोध्यायां १ अत्रोत्प्रेक्षयोयुगलम् । २ 'गहनं काननं वनम्' इत्यमरः ।