पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(६) भट्टिकाव्ये जयमङ्गलासमेते- [ आद्यः लोकस्थितये माभूल्लोकस्य स्थित्यतिक्रम इत्येवमर्थम् । अनिरपि लोकस्य स्थितये ज्वलति । यथोक्तम् 'अग्नौ प्रास्ताऽऽहुतिः सम्यगादित्यमुपतिष्ठते । आदित्याजायते वृष्टिर्वृष्टेरन्नं ततः प्रजाः ॥' अभिप्रणीत इत्यग्निविशेषणम् । आभिमुख्येन प्रणीत इति प्रादिसमासः । 'उपसर्गादसमासेऽपि णोयदेश ३८।४।१४।' इति णत्वम् । मन्त्रेणाभिमुखीकृत इत्यर्थः । यथाऽध्वरे यागेऽभिप्र- •णीतो वृह्निवलति तथा राजाऽपीत्यर्थः ॥ ४ ॥ यत्रस्थो राज्यं चकार तां राजनगरीं दर्शयन्नाह - स पुण्यकीर्तिः शतमन्युकल्पो महेन्द्रलोकप्रतिमां समृद्धया । अध्यास्त सर्वसुखामयोध्यामध्यासितां ब्रह्मभिरिद्धबोधैः ॥ ५ ॥ स पुण्येत्यादि—स्वामिगुणपूर्वका हि निवासस्य गुणा भवन्तीति प्रद- शनार्थ पश्चात्तदभिधानम् । तथा चोक्तम्- 'स तु यच्छीलस्तच्छीला अस्य प्र कृतयो भवन्ति ।' इति । स राजा पुण्यकीर्तिः पुण्याः पवित्राः कीर्तयो यस्य सः । शतमन्युकल्प इति प्रभावं दर्शयति । 'ईषदसमाप्तौ कल्पव्देश्यदेशीयरः |५||३||६७ | इतकल्पपू । शतमन्युरिन्द्रः महेन्द्रलोकप्रतिमामयोध्याभिति योज्यम् । प्रतिमीयते तुल्यत इति प्रतिमा । 'आश्चो |३|३|१०६| इत्यङ् । महेन्द्रलोकेन प्रतिमा तुल्या | 'तृतीया सप्तम्यो हुलम् ||२|१||३०|| इति 'तृतीया' इति योगविभागात्समासः । अमरावतीमिवेत्यर्थः । कया । समृद्धथा । सम्यगतिशयेनार्द्धः समृद्धिः । कुगतिप्रादयः । २ । २ । १८ । ' इति श्रादिसमासः । अध्यास्ताध्यासितवान् । भूतसामान्ये लङ् । आस्तेरनुदात्ते- त्त्वात्तङ् । ‘अधिशीङ्ख्यासां कर्म्म | १|४|४६ । ' इत्याधिकरणस्य कर्मसञ्ज्ञा । सुखयतीति सुखा, पचाद्यच् । सुखहेतुत्वाद्वा सुखा । सर्वेषु ऋतुषु सुखेति ॥ 'सप्तमीविशेषणे बहुव्रीहौ |२|१२|४०|| इति योगविभागात्समासः । अध्यासि- तामध्युषिताम् । ब्रह्मभिर्ब्राह्मणैरिद्धबोधैः । सर्वशास्त्र परिज्ञानात्पटु बुद्धिभिरि- त्यर्थः । इन्धेर्निष्ठायामनुनासिकलोपः ॥ ५ ॥ निर्माणदक्षस्य समीहितेषु सीमेव पद्माऽऽसनकौशलस्य । ऊर्ध्वस्फुरद्रत्न गभस्तिभिर्या । स्थिताऽवहस्येव पुरं मघोनः ॥ ६ ॥ १ " वेदस्तत्वं तपो ब्रह्म ब्रह्मा विप्रः प्रजापतिः ।' इत्यमरः ।