पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ] प्रकीर्णकाण्डम् । 2 वासः विजयित्वस्य फलं दर्शयति । ‘वस निवासे ।" इत्यस्य रूपम् । सम्प्रसारणम्' इति वचनादिडभाव: । 'अस्तिसिचऽऽपृक्ते |७|३|९६ | इति ईट् “वद्व्रजहलन्तस्याचः | ७|२|३|' इति वृद्धि: । 'स: स्यार्धधातुके |७|४|४९॥ ' इति तत्वम् । आसनमिति ' उपान्वघ्याङ्वसः |१|४|४८|' इत्याधिकरणस्य कर्मसञ्ज्ञा । त्रीण्यम्बकान्यक्षीणि अस्येति त्र्यम्बको महादेवस्तस्मादन्यं उपपूर्वात्तिष्ठते : ' देवपूजासंगतिकरण- (५) नोपास्थित न पूजितवानित्यर्थः । मित्रकरणपथिषु ।' इति देवपूजायां तङ् । 'स्थाध्वोरिच्च |१|२|१७|' इत्युत्वं कित्त्वं च । 'हखादङ्गात् |८|२|२७|' इति सिचो पः। इपून्बिभ्रतीति 'अन्ये - भ्योऽपि दृश्यन्ते ।३।२।७५ | इति किप् । इषुभृतो धनुर्धराः तेषां सर्वेषां यशांसि निरास्थत् । निरस्तवानित्यर्थः । एतेनास्यासाधारणीकृतास्त्रत्वं दर्शि- तम् ! 'उपसर्गादस्यत्यूह्योर्वा वचनम्' इति वार्त्तिकवचनाद्यदा तङ् नास्ति, तदा तिप् । 'अस्यतिवक्तिख्यातिभ्योऽङ् |३|१||५२|' इति चलेरङ् । 'अस्यतः क्थुकूँ |७|४|१७' ॥ ३ ॥ पुण्यो महाब्रह्मसमूहजुष्टः सन्तर्पणो नाकसी वरेण्यः । जज्वाल लोकस्थितये स राजा यथाऽध्वरे वहिरभिप्रणीतः ॥ ४ ॥ पुण्य इत्यादि — पुनातीति पुण्यः । 'पूजो यत् णुक् ह्रस्वञ्च' इत्यौप्पादिको यत् । णुगागमञ्च ह्रस्वश्च । अत्यन्तपुण्य करणाद्राजापि पुण्य इत्युच्यते । तन्म- यत्वाद्राजा | अग्निरपि पुण्यः पावनात्पुण्यः । यागादिः पुण्यस्तेन पुरुषः पूयते । महतां वेदविदां ब्रह्मणां ब्राह्मणानां समूहेनजुष्टः सेवितो राजाऽग्निश्च । ब्रह्मशब्दोऽत्र ब्राह्मणपर्याय: । नाके स्वर्गे सीदन्तीति 'सत्सूद्विषद्रुहृदुहयु- विदद्भिदच्छिदजिनीराजामनुपसर्गेऽपि विप् ||३|२||६१|' इति विप् | नाकसदो देवास्तेषां कर्मणि पष्ठी । सन्तर्पयति प्रीणयतीति सन्तर्पणः । सन्तर्पयते: 'कृत्यल्युटो बहुलम् | ३|३|११३|' इति कर्तरि ल्युट् | राजा यागादिना तर्पयति । अग्निरपि सदा शुद्धत्वेन परशुद्धिकृत्त्वेन च पुण्यः महतां वेदानां समूहेन प्रति- पाद्यत्वेन जुष्टश्वासन्तर्पकः पुनराराभिमुखत्वाद्देवानां वरेण्यश्चैवं श्रेष्ठो राजाऽग्निश्च सर्वेषां धर्म्मविदामिति यथातथमूह्यम् । ' वृङ एण्यः' | जज्वाल प्रदीप्तवान् । १ सूर्यचन्द्रपावक भेदेन त्रिसङ्ख्याकानि । २ 'अम्बकं च' इति त्रिकाण्डशेषः ३ ‘न्न्र्यम्बकस्त्रिपुरान्तकः । ' इत्यमरः । ४ अत्रोपमाऽलङ्कारसमर्थनायैव वेदब्राह्म- •णोभयवाचकस्य ब्रह्मपदस्योपादानम् । ५ किं तु 'स्वे स्वे धर्म्ये कर्म्माणि सर्वेऽपि प्रवर्तेरन्' इति भावः । ६ एतेन लोकस्थित्यतिक्रमेणापराधासहिष्णुत्वं सूचितम् ।