सामग्री पर जाएँ

पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/४६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( ४२४ ) भट्टिकाव्ये जयमङ्गलासमेते- [ पञ्चदशः - परिघेणेत्यादि--अथ देवान्तको बली परिघेणावधेिष्ट हतवान् । 'आङो यमहनः । १ । ३ । २८ ।। इति तङ् । अविवक्षितकर्मकत्वात् 'आत्मनेपदेष्व- ज्यतरस्याम् ||४|४|४|| इति हनो वधादेशः । तस्य नतः प्रहरतो मूर्धानं मारुतात्मजः हनुमान मुष्टिना अददरत् दारितवान् । 'दृ विदारणे' ण्यन्तस्य चङ्परे णौ ‘अत्स्मृदृत्वरप्रथम्र दस्तस्पशाम् ।७।४।९५।' इत्यंभ्यासत्यात्त्वम्॥८१॥ अदीदिपत् ततो वीर्ये नीलं चापीपिडच्छरैः । युद्धोन्मत्तस्तु नीलेन गिरिणानाथि संक्षयम् ॥ ८२ ॥ अदीदिपदित्यादि -- ततो देवान्तकविनाशाद्नन्तरं युद्धोन्मत्तो राजसुतानां रक्षार्थ यः प्रेषितः स वीर्यमदीदिपत् । 'भ्राजभासभाषदीप जीवमील- पीडामन्यतरस्याम् ।७।४।३ । इति ह्रस्वाभावपक्षे रूपम् । नीलं च शरैरपीपिडत् पीडितवान् । ह्रस्वाभावपक्षे रूपम् । अपीपरदिति पाठान्तरम् । पूरितवानित्यर्थः । 'प पूरणे' इति चुरादिः । स तु नीलेन वानरेण संक्षयं गिरिणा अनायि नीतः कर्मणि लुङ् ॥ ८२ ॥ अबभ्राजत् ततः शक्ति त्रिशिराः पवनात्मजे । हनूमता क्षतास्तस्य रणेऽमृत वाजिनः ||८३ ॥ - G अवनजदित्यादि -- ततोऽनन्तरं त्रिशिरा राक्षसो रावणकुमारः पवनात्म- जविषय शक्ति वीर्यमबभ्राजत् दीपयति स्म । भ्राजभासभाषदीपजीवमी- लपीडा मन्यतरस्याम् |७|४|| ३ || इति हस्वाभावपक्षे रूपम् । तस्य वाजिनो रथ- युक्ता रणे हनूमता हताः सन्तः अनृषत मृताः । 'म्रियतेर्लुङ् लिङोच १ । ३।६१ ।' इति तङ् ॥ ८३ ।। अस्त्रसच्चाहतो मूर्ध्नि खड्गं चाजी रद् द्विपा | प्राणानौज्झीच खड़ेन छिस्व धभिः ॥ ८४ ॥ अस्त्रसदित्यादि — त्रिशिराश्च हनूमता मूर्ध्नि ह्तः सन् रथाद्भूमौ अस्र- सत् रथाद्धमौ स्रस्तः ।‘द्युद्भयो लुङि | ११३ १९९१ |' इति परस्मैपदम् । श्रुतादित्वा- दङ् । क्रुिति इत्यनुनासिकलोपः । स्रस्तश्च स खङ्गं हस्तस्थं द्विषा हनूमता अजीहरत् हारितवान् । तेनैव च खड्ङ्गेन छिन्नैर्मूर्धभिर्हेतुभूतैः प्राणानौज्झत् व्यक्तवान् । 'उज्झ उत्सर्गे ॥ ८४ ॥ अथ द्वाभ्यां युग्मकम् । मत्तेनामारि सम्प्राप्य शरभास्तां महागदाम् | सहस्रहरिणाक्रीडीदति कायस्ततो रणे ।। ८५ ।। -