पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/४६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्ग: ] तिङ्काण्डम् । ( ४२३ ) टिष्ट घटते स्म । राक्षसो नरान्तकः । प्रासं कुन्तं प्रैषिषत् । ‘इषु गतौ' इत्यस्याः व्यन्तस्य चङि रूपम् । स प्रासोऽङ्गदोरसि अस्फोटीत् विशीर्णः ॥७७॥ अश्वान् वालिसुतोऽहिंसीदतताडच्च मुष्टिना | रावणिश्चाव्यथो योद्धुमारब्ध च महीं गतः ॥ ७८ ॥ अश्व नित्यादि – चालिसुतोऽङ्गदोऽश्वान् रथयुक्तानहिंसीत् व्यापादितवान् । 'गृह हिसि हिंसायाम् ।' मुष्टिना पाणिना अतताडत् आहतवान् 'तड आघाते । ताडनं ताड: । 'भावे । ३ । ३ । १८ ।” इति घञ् । ताडं करोतीति णिच् णाविष्ठवदिति टिलोपः। 'णी चडधुपधाया हवः |७|४|१|' इति प्राप्ते 'नाग्लो- पिशास्वृदिताम् । ७।४ । २ ।। इति हस्वप्रतिषेधः । स च रावणि... व्यथो व्यथारहितः । हताश्चाद्रथावतीर्य महीं गतः सन् योद्धुमारब्ध आरभते स्म । 'झलो झलि|८|२|२६|' इति सिचो लोपेः धत्वबत्वे च रूपम्॥७८१॥ तस्याहारिषत प्राणा मुष्टिना वालिसूनुना | प्रादुद्रुवँस्ततः क्रुद्धाः सर्वे रावणयोऽङ्गदम् ॥ ७९ ॥ तस्येत्यादि--तस्य प्राणाः वालिपुत्रेण अहारिषत हृताः । कर्मणि लुङ् चिण्वद्भावः । ततोऽनन्तरं सर्वे रावणये: रावणस्यापत्यानि देवान्तकादयः क्रुद्धाः सन्तोऽङ्गदं प्रादुद्रुवन् । 'णिश्रिद्रुश्रुभ्यः कर्त्तरि चङ् । ३ । १ । ४८ । इति चङ् ॥ ७९॥ ततो नीलहनूमन्तौ रावणीनववेष्टताम् । अकारिष्टां गिरींस्तुङ्गानरौत्सीत् त्रिशिराः शरैः ॥ ८० ॥ तत इत्यादि — ततो रावणीनङ्गदाभिमुखमागच्छतो नीलो हनुमांश्चाववे- ष्टतां वेष्टितवन्तौ । 'विभाषा वेष्टिचेष्टयोः । ७ । ४ । ९६ ।' इत्यभ्यासस्या- त्त्वम् । गिरींश्चाकारिष्टां विक्षिप्तवन्तौ । 'कृ विक्षेप ।' सिचि तांश्च गिरीन्निक्षिप्तान् त्रिशिराः शरैस्तुङ्गानरौत्सीत् आवृतवान् वृद्धिः । । 'रुधिर् आवरणे' ॥ ८० ॥ परिघेणावधिष्टाथ रणे देवान्तको बली । मुष्टिनाददरत्तस्य मूर्धानं मारुतात्मजः ॥ ८१ ॥ १ अत्र ‘अत इञ् ४ । १ । ९५ ।' इतीञ् ।