पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/४६०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(४२२) भट्टिकाव्ये जयमङ्गलास मेते- • कथं न्वजीविपुस्ते च स चामृत महाबलः । अयुयुत्सिषताश्वास्य कुमारा रावणं ततः ॥ ७३ ॥ कथमित्यादि — ते अल्पाः कथं नाम अजीविषुः जीविताः । स च कुम्भ- कर्णो महाबलः अमृत मृतः ।" म्रियतेर्लुङ्लिङोच |१||६|| इति तङ् । 'हस्वादुङ्गात् | ८|२|२७|' इति सिचो लोपः । अनन्तरं कुमारा: राक्षसराजपुत्रा देवान्तकादयो रावणं शोचन्तमाश्चास्य अपनीतशोकं कृत्वा अयुयुत्सिषत योद्धुमिष्टवन्तः ।‘ हलन्ताच्च | १ | २|१०|| इति सनः कित्त्वम | 'पूर्ववत्सनः । १ । ३ । ६२ ' इति तङ् ॥ ७३ ॥ देवान्तकोऽतिकायश्च त्रिशिराः स नरान्तकः । ते चांहिषत संग्रामं बलिनो रावणात्मजाः ॥ ७४ ॥ [ पञ्चदश:- देवान्तक इत्यादि-ते च बलिनो रावणात्मजा: देवान्तकोऽतिकाय स्त्रिशिरा 'नरान्तकश्चेति चत्वारः संग्राममांहिषत गतवन्तः । ' अहि गतौ ।' ॥ ७४ ॥ युद्धोन्मत्तं च मत्तं च राजा रक्षार्थमाञ्जिहत् । सुतानां निरगातां तौ राक्षसौ रणपण्डितौ ॥ ७५ ॥ युद्धेत्यादि- सुतानां रक्षार्थं राजौ युद्धोन्मत्तं मत्तं च राक्षसम् आजिहत् प्रस्थापितवान् । अहतेर्णौ चपरे द्वितीयाज्विशिष्टस्य हीत्यस्य द्विवचनम् । तौ राक्षसौ रणपण्डितौ निरगातां निर्गतौ । 'इणो गा लुङि ।२।४।४५|’ ॥ ७५ ॥ तैरजेषत सैन्यानि द्विषोऽकारिषताकुलाः । पर्वतानिव ते भूमावचैपुर्वानरोत्तमान् ॥ ७६ ।। तैरित्यादि--तैः राक्षसैः वानराणां सैन्यानि अजेपत जितानि । कर्मणि लुङ् | अचिण्वद्भावपचे रूपम् । द्विष आकुला अकारिषत । ते राक्षसा वानरोत्तमान् वानराणां प्रधानभूतान् पर्वतानिव भूमौ अचैषुः पुञ्जीकृतवन्तः ‘चिञ् चयने' ॥ ७६ ॥ अङ्गदेन समं योद्धुमघटिष्ट नरान्तकः । प्रेषिषद्राक्षसः प्रासं सोऽस्फोटीदङ्गदोरसि ॥ ७७ ॥ अङ्गदेनेत्यादि — नरान्तको राक्षस: रावणात्मजः अङ्गदेन सह योद्धुमघ- १ देवान्तकादीनाम् | २ राक्षसराजः ।