पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/४६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वर्ग: ] तिङ्काण्डम् । (४२५) मत्तेनेत्यादि---शरभेण वानरेणास्तां क्षिप्तां महागदां प्राप्य मत्तेन सुतानां रक्षार्थी प्रेषितेन राक्षसेनामारि मृतम् । भावे लुङ् । ततोऽनन्तरं अतिकायो राजपुत्रो रणे अक्रीडीत् विहरति स्म । रथेनेति वक्ष्यति । सहस्रं हरेयोऽश्वा यस्य रथस्य ।। ८५ ।। रथेनाविव्यथच्चारीन् व्यचारीच निरङ्कुशः । विभीषणेन सोऽख्यायि राघवस्य महारथः ॥ ८६ ॥ रथेनेत्यादि--अरींश्चाविव्यथत् पीडितवान् । व्यथेण्यंन्तस्य चडि रूपम् । निरङ्कुशश्चाप्रतिहतशक्तिर्व्यचारीत् भ्राम्यति स्म । रान्तत्वा- द्वृद्धि: । स विचरन्महारथः विभीषणेन राघवस्य आख्यायि कथितः । कर्मणि लुङ् ।। ८६ ॥ अतस्तम्भदयं वज्रं स्वयम्भुवमत्तुषत् | अशिक्षिष्ट महास्त्राणि रणेऽरक्षीच्च राक्षसान् ॥ ८७ ॥ उग्रेण तपसा आरा- अतस्तम्भदित्यादि-अयं स्वशक्त्या वज्रम् अतस्तम्भत् | स्तम्भितवान् 'स्तभि स्कभि प्रतिष्टम्भे ।" ण्यन्तस्य णिश्रिद्रुस्रुभ्यः कर्त्तरि चङ् । ३ । १ । ४८ ।' इति चङ् । स्वयम्भुवमतूतुषत् । धनात् तोषितवान् | 'तुष प्रीती' ण्यन्तः | महाखाणि दिव्यानि चाशिक्षिष्ट शिक्ष स्म । 'शिक्ष विद्योपादाने' रणे च राक्षसानरक्षीत रक्षति स्म ॥ ८७ ॥ अध्यगीष्टार्थ शास्त्राणि यमस्याह्नोष्ट विक्रमम् । देवाहवेष्वदीपिष्ट नाजनिष्टास्य साध्वसम् ॥ ८८ ॥ अध्यगीष्टेत्यादि---- अर्थशास्त्राणि पराभिसन्धानार्थानि अध्यगीष्ट अधीत- वान् । विभाषा लुङलङो । २।४।५० ।। इति इङो गाङादेशः । यम- स्याप्ययं विक्रम महोष्ट अपनीतवान् । 'हु अपनयने ।' अहलन्तत्वात्सि- घो न कित्त्वम् | देवाहबेष्वदीपिष्ट शोभितः । अस्य च साध्वसं भयं ना- जनिष्ट न जातम् । 'दीपजनबुधपूरितायिप्यायिभ्योऽन्यतरस्याम् |३|१|६१ इति चिण्ववद्भावपक्षे रूपम् ॥ ८८ ॥ एष रावणिरापादि वानराणां भयङ्करः । आह्वताऽथ स काकुत्स्थं धनुश्चाऽपुस्फुरद् गुरु ॥ ८९ ॥ १ ‘असु क्षेपणे’ क्तः। २‘य मानिलेन्द्र चन्द्रार्कविष्णुसिंहाशु वाजिषु । शुकाहि कपि- भकेषु हरिर्ना कपिले त्रिषु ॥ इत्यमरः ।