पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/४४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ] तिङ्काण्डम् । सत्त्वं समदुधुक्षञ्च वानराणामयुद्ध च । ततः शैलानुदक्षैप्सुरुदगूषित दुमान् ॥ ३४ ॥ सत्त्वमित्यादि —- वानराणां सत्त्वं समदुधुक्षत् सन्दीपितवान् | धुक्षेः सन्दी- पनार्थात् ण्यन्ताच्च्लेश्चङ् | स्वयमयुद्ध च युध्यते स्म । 'झलो झाले | ७ | २ २६|' इति सिचो लोपः । ततः सत्त्वधुक्षणानन्तरं वानराः शैलानुदक्षैप्सुः उत्क्षिप्तवन्तः। हलन्तलक्षणा वृद्धिः । द्रुमांश्चदरिषत उत्थापितवन्तः 'गूरी उद्यमने' ॥ ३४ ॥ (४११) अनर्दिषुः कपिव्याघ्राः सम्यक् चायुत्सताहवे । तानमर्दीदखाचि निरास्थञ्च तलाहतान् ॥ ३५ ॥ अनार्दषुरित्यादि — उत्क्षिप्तशैलढुमाः कपिव्याघ्रा अनर्दिषुः नर्दितवन्तः | 'दृष्टोऽस्माभिः क्व यास्यास' इति । सम्यक् निर्भयमाहवे अयुत्सत युध्य- ते स्म । 'हलन्ताच्च | १ | २ | १८ |' इति सिच: कित्त्वे गुणाभावः । तान् प्लवङ्गमान् युध्यमानान् कुम्भकर्णोऽमर्दीत् मृदितवान् | मृदेर्लघूपध- गुणः । अखादीच्च भक्षितवान् । हस्ततलेनाहतान् निरास्थत् इतस्ततः क्षिप्त- वान् । 'अस्यतिवक्तिख्यातिभ्योऽङ् | ३ | १ | ५२ |' इत्यङ् । 'अस्यते- स्थुक् |७|४|१७|' ॥ ३५ ॥ 'चूर्ण प्रेरणे प्राचुचूर्णच्च पादाभ्यामबिभीषत च द्रुतम् । अतहीँच्चैव शूलेन कुम्भकर्णः प्लवङ्गमान् ॥ ३६॥ प्राचुचूर्णदित्यादि – पादाभ्यां प्राचुचूर्णत् पिष्टवान् । इति चुरादि: । एवं चूर्णयन् द्रुतमविभीषत भीपयते स्म 'भियो हेतु- भये षक् । ७।३।४० ।' । 'भीरम्योर्हेतुभये । १।३ । ६८।' इति तलू । शूलेन प्रहरणेन अतींच्च विद्धवान् । 'तृह् हिंसायाम् ।', हृय - न्तत्वान्न वृद्धिः ॥ ३६॥ अतौत्सगिदया गाढमपिषच्चोपगूहनैः । जानुभ्यामदमीच्चाऽन्यान् हस्तवर्तमवीवृत्तत् ॥ ३१ ॥ अतौरसीदित्यादि--कांश्चिदया गाढमतौरसीत् व्यथितवान् । उपगृहने- राषित् चूर्णितवान् । लदित्त्वादङ् । अन्यांश्च जानुभ्यां अमीत् शासि- तवान् । अवष्टभ्य नियमितवानित्यर्थः । 'हृयन्तक्षणश्वसजागृणिश्व्योदिताम् १ 'द्रव्यासुव्यवसायेषु सत्वमस्त्री तु जन्तुषु ।' इत्यमरोक्त्या सत्त्वं प्राणाः ।