भट्टिकाव्ये जयमङ्गलास मेते- [ पञ्चदशः - मांसेनेत्यादि—वनवासिनां मांसेनास्य कुम्भकर्णस्य कुक्षी उदरपार्श्वों अश्वत शूनौ । 'जस्तम्भुम्रुचुम्लुचुमुचुग्लुञ्ञ्चुश्विभ्यश्च |३|११५८|| इति अङ् । ‘श्वयतेरः ।७।४।१८।' इत्यत्वम् । जठरं चोदरमशिश्चियत् वृद्धम् । 'विभाषा धेश्व्योः |३|११४९| इति च । इयङादेशः । बहूनां वनवासिनां प्राणानग्लुचत् हृतवान् । 'ग्रुचुग्लुचुकुजुखुजुस्तेयकरणे' । 'जृस्तम्भुम्रुचुम्लुचुग्रुचुग्लुञ्चुश्विभ्यश्च | ३ | १ । ५८ ।। इत्यादिना । । अविकल्पनादङभावपक्षे रूपम् । यशश्च बहूनां रणे अग्लोचीत् अप- नीतवान् । 'वञ्चुचञ्चु' इत्यादौ ग्लुचिर्गत्यर्थः । अङभावपक्षे रूपम् ॥ ३० ॥ सामर्थ्य चापि सोऽस्तम्भीद् विक्रम चाऽस्य नास्तभन् । शाखिनः केचिद्ध्यष्टुर्न्यमाङ्क्षुरपरेऽम्बुधौ ॥ ३१ ॥ सामर्थ्यमित्यादि —स कुम्भकर्ण: केपांचिद्रलवतामपि वनवासिनां सामर्थ्यमस्तम्भीत् नियमितवान् । अङभावपक्षे रूपम् । विक्रमं च केचि- दुस्य नास्तभन्ं न नियमितवन्तः । अङपक्षे रूपम् । कित्यनुनासिकलोपः । केचिद्भयादू वृक्षानध्यष्ठुः अधिष्ठितवन्तः । तिष्ठतेः 'गातिस्थाघुपाभूभ्यः सिचः परस्मैपदेषु २ । ४ । ७७ ।' इति सिचो लुक् । आदेश- सकारस्य षत्वं ष्टुत्वं च । अपरेऽम्बुधौ न्यमाङ्क्षुर्निमग्नाः । 'मस्जिनशो- झील |७|१|६० | इति नुम् । मस्जेरन्त्यात्पूर्व नुममिच्छन्ति । अनुषङ्गसंयो- गादिलोपार्थम् ॥ ३१ ॥ अन्ये त्वलङ्घिषुः शैलान् गुहास्वन्ये, न्यलेषत | केचिदासिषत स्तब्धा भयात् केचिदचूर्णिषुः ॥ ३२ ॥ (४१०) अन्ये त्वित्यादि--अन्ये शैलानलङ्घिपुः भयादारूढा इत्यर्थः । अन्ये गुहासु न्यलेषत । 'लीङ् श्लेषणे' । कोचत् स्तब्धाः स्थाणुवदासिषत आसत अपरे भयात् भीत्या अचूर्णिपुः घूर्णन्ते स्म ॥ ३२ ॥ उतारिषुरम्भोधिं वानराः सेतुनापरे । अलज्जिष्टाङ्गदस्तत्र प्रत्यवास्थित चोर्जितम् ॥ ३३ ॥ उदतारिषुरित्यादि -- अपरे वानराः सेतुना अम्भोधिमुदतारिषुः उत्तीर्णाः । तत्र तेषु तथाभूतेष्वङ्गदोऽलजिष्ट लज्जते स्म । ऊर्जितं च पराक्रमं प्रत्यवास्थित प्रतिपन्नवान् । 'समवप्रविभ्यः स्थः |१||३|२२|| इति तङ् । 'हस्वादुङ्गात् ।। २|२७|' इति सिचो लोपः ॥ ३३ ॥
पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/४४८
दिखावट