पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/४५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(४१२) भट्टिकाव्ये जयमङ्गलासमते- [ पञ्चदश:- |१|२||५|' इति न वृद्धि: । हस्तवर्तमवीवृतत् हस्ताभ्यां वर्तितवान् पिष्टवा- नित्यर्थ: । वृतेर्ण्यन्तात् 'हस्ते वर्तमहोः | ३ | ४|३९ । इति णमुल् । ‘कषादिषु यथाविध्यनुप्रयोगः । ३ । ४ । ४६ ।। इति वृतेरेवानुप्र- योगः ॥ ३७ ॥ अदालिषु: शिला देहे चूर्ण्यभूवन् महाद्रुमाः । - क्षिप्तास्तस्य न चाचेतीत्तानसौ नापि चाक्षुभत् ॥ ३८ ॥ अदालिपुरित्यादि — वानरैस्तस्य देह क्षिप्ताः शिला अदालिषुर्विशी- - र्णाः । 'दल विशरणे ।' भौवादिकः । लान्तत्वाद्वृद्धि: । महाद्रुमाश्चू- यभूवन्, चूर्णीभूताः । न च तान् क्षिप्तानसौ कुम्भकर्ण अचेतीत् चेतितवान् । ‘चिती संज्ञाने ।' नापि चाक्षुभत् न क्षुभितः । क्षुभ संचलने' दिवादिः ।। ३६ ।। अद्राष्टां तं रघुव्याघ्रौ आख्यच्चैनं विभषिणः । एष व्यजेष्ट देवेन्द्रं नाशङ्किष्ट विवस्वतः ॥ ३९ ॥ - अद्राष्टामित्यादि - तं तादृशौ रघुव्यात्रौ रामलक्ष्मणावद्राक्षां दृष्टवन्तौ । विभीषणश्चै नमाख्यत् कथितवान् । 'कुम्भकर्णोऽयम्' इति 'अस्यतिवक्ति- ख्यातिभ्योऽङ् ।३।१।५२ |' इत्यङ् | प्रभाव चास्य कथयन्नाह - देवेन्द्रमेष व्यजेष्ट विजितवान् । 'विपराभ्यां जेः |१|६|१९|' इति तङ् । विवस्वतः सूर्यात् नाशकिष्ट न शकते स्म ॥ ३८ ॥ यक्षेन्द्रशक्तिमच्छासी – नामोथीदस्य कश्चन | कुम्भकर्णान्न भैष्ट मा युवामस्मान् नृपात्मजौ ॥ ४० ॥ यक्षत्यादि - यक्षेन्द्रस्य कुबेरस्य शक्ति प्रहरणमच्छासीत् खण्डितवान् । 'छो छेदने ।' अस्य तु कश्चन कश्चित् नाप्रोथीत् न प्रभवति स्म । शक्त्यै प्रहरणायेत्यर्थात् ।' प्रोथृ पर्याप्तौ ।' पर्याप्तियोगे चतुर्थी न भविष्यति पर्याप्ते - रविवक्षितत्वात् । अतोऽस्मादेवंविधात् कुम्भकर्णात् युवां नृपात्मजौ मा न भैष्टं, किन्तु बिभीतम् ।'माङलुङ् ||३||३|१९७५ मध्यमपुरुषद्विवचने रूपम् । माशब्दः प्रतिषेधे ॥ ४० ॥ १ ‘द्वितीयाटौस्स्वैनः । २ । ४ । ६४ ।' इत्येतच्छन्दस्यैनादेशः । मित्यर्थः । कुम्भकर्ण-