पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/४४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्ग: ] तिङकाण्डम् | (४०७) त्कृतैः मोपालब्धाः मोपालभस्व । 'झलो झलि |८|२|२६|' इति सिचो लोपः ।‘झषस्तथोर्धोऽधः । ८ । २ । ४० । झलां जश झशि । ८ । ४ । ५३ । तं कार्यमान वाक्षीः मा न वह । किन्तु वह । वहेरनिटो हलन्तलक्षणा वृद्धि, ढत्वकत्वषत्वानि ॥ २० ॥ • कुम्भकर्णस्ततोऽगजींद्भटांश्चान्यान्यवीवृतत् । उपायस्त महास्त्राणि निरगाच्च द्रुतं पुरः ॥ २१ ॥ कुम्भकर्ण इत्यादि- ततस्तद्वचनानन्तरं कुम्भकर्णोऽगर्जीतू गर्जितवान् । अन्यांश्च भटान पृष्ठतो गच्छतो । निवर्तितवान् वृतेश्च परे णावुपधाया 'उर्ऋत् । ७ । ४ । ७ ।। इत्यपवाद ऋकारादेशः । महास्त्राणि उपायंस्त स्वीकृतवान् । औपचारिकमत्र स्वीकरणं तेन तङ् । यदि वा उपाङ्पूर्वाद्यमेः समुदायो यमोऽग्रन्थे । १ । २ । ७५ ।' इति तङ् । पुरश्च लङ्कातः दुतं निरगात् निर्गतः । इणो गादेश: । 'गाविस्थाघुपाभूभ्यः सिचः परस्मैपदेषु । २ । ४ । ७७ ।' इति सिचो लुक ॥ २१ ॥ मूर्ध्ना दिवमिवालेखीत्वं व्यापद् वपुषोरुणा । पादाभ्यां क्ष्मामिवाभैत्सीत् दृष्टयाधाक्षीदिव द्विषः ॥ २२ ॥ - मूर्धेत्यादि --- निर्गच्छन मूर्ध्ना दिवमलेखीदिव लिखितवानिव । उरुणा महता वपुषा खं व्यापत् व्याप्तवान् । लदित्त्वादङ् । क्ष्मां पृथ्वीं पादाभ्याम भै-- त्सीदिव विदारितवानिव | द्विषः शत्रून् दृष्टयावाक्षीदिव भस्मसात् कृतवा निव 'दह भस्मीकरणे' ॥ २२ ॥ दग्धशैल इवाभासीत् प्रास्त क्षयमेघवत् । प्राचकम्पदुदन्वन्तं राक्षसान व्यतित्रसत् ॥ २३ ॥ दग्धशैल इत्यादि ---- महत्त्वात् कृष्णत्वाच्च दग्धशैलवदभासीत् भाति स्म ।। 'भा दीप्ती' 'यमरमनमाता सक च |७|२|८३ || इति सगिटौ । क्षयमेघवत्प्रा स्त स्थितः । 'प्रोपाभ्यां समर्थाभ्याम् ||१|३||४२|| इति तङ् । प्रतिष्ठमानश्च उद्न्वन्तमचकम्पत् कम्पितवान् । 'कपि चलने' । इदितो ण्यन्तस्य चाङ रूपम् । राक्षसानपि अतित्रसत् त्रासितवान् । त्रसेर्ण्यन्तस्य चङि रूपम् ॥ २३ ॥ १ अहमेव सर्वशत्रुसैन्यदलं भक्ष्ययिष्यामि इति न मे साहाय्यापेक्षैत्याम-- मायात् । .