पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/४४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( ४०६) भट्टिकाव्ये जयमङ्गलासमेते- [ पञ्चदश:- वृद्धिप्रतिषेधः । 'व्यय गतौ' इत्यस्यापि रूपम् । अनेकार्थत्वाद्धातूनामु- त्सर्जनेऽपि द्रष्टव्यम् ॥ १७ ॥ सन्धानकारणं तेजो न्यगभूत्तेऽकृयास्तथा । यत् त्वं वैराणि कोशं च सहदण्डमजिग्लपः ॥ १८ ॥ .सन्धानेत्यादि-- -- तथा त्वमकृथाः कृतवानसि । 'तनादिभ्यस्तथासोः ।२।४/७९।' इति सिचो लुक् । यथा सन्धानेकारणं सन्धानहेतुकं यत्तव तेजः प्रचण्डत्वं तत् न्यगभूत् न्यग्भूतम् । 'गातिस्थाघुपाभूभ्यः सिच: परस्मैपदेषु ।२।४।७७। इति सिचो लुक् | कुत इत्याह | यत्त्वं वैराणि शत्रुभावान् कोशं च सहदण्डं ससैन्यमजिग्लप: ग्लपितवानसि | ग्लायतेण पुकि 'ग्लास्नावनु - वमां च' इति मित्त्वात् हस्वत्वम् । ग्लपयतेश्चाङ रूपम् | यदि हि तेजो भवेत् सर्वं तथावस्थितमेव स्यात् ततश्च तेजसोऽभावात् सन्धानं । कथं द्वयोः परस्परानुपतापात् । यथोक्तं यावन्मात्रमुपकुर्यात् तावन्मात्रमेवास्य प्रत्युपकुर्यात् । तेजो हि सन्धानकारणं तप्तं लोहं तप्तेन लोहेन सन्धत्त इति ॥ १८ ॥ अक्रुधच्चाभ्यधाद्वाक्यं कुम्भकर्णी दशाननः । किं त्वं मामजुगुप्सिष्ठा नैदिधः स्वपराक्रमम् ॥ १९ ॥ अक्रुधदित्यादि--अथैवमुक्ते दशाननः अक्रुधत् क्रुद्धवान् । पुपादित्वा- दङ् । क्रुद्धश्च कुम्भकरणमभ्यधात् अभिहितवान् । 'गातिस्थाघुपाभूभ्यः सिचः परस्मैपदेषु । २।४७७ |' इति सिचो लुक् । किमिति त्वं माम् अजुगुप्सिष्ठाः निन्दितवानसि | स्वविक्रमं नैदिधः न वर्धितवानसि । एधधातोर्ण्यन्तस्य चडि स्थानिवद्भावात् 'अजादेद्वितीयस्य |६||१||२|' इति विशब्दो द्विरुच्यते ॥ १९॥ मोजिग्रह: सुनीतानि मा स्म कंस्था न संयुगे । मोपालब्धाः कृतैर्दोषैर्मा न वाक्षीर्हितं परम् ॥ २० ॥ मोजिग्रह इत्यादि ---- सुनीतानि सुनयान् मा उज्जिग्रहः मा उद्वाहय । हेर्ण्यन्तस्य चङि रूपम् । संयुगे युद्धे विषयभूते मा फ्रंस्था मोत्साहं न कार्षीः अपि तूत्सहस्व | 'स्मोत्तरे लङ् च |३|३|१७६।' | इति चकाराल्लुङ् 'वृत्तिसर्गतायनेषु क्रमः | १२|३|३८|| इति क्रमेः सर्गे उत्साहे । दोषैः अस्म- १ सन्धिहेतुंकम् । 'सन्धानं स्यादभिषवे तथा सङ्घटनेऽपि च ।' इति विश्वः ॥ सम्, धाञ्, भावे ल्युट् ।