सर्मः ] तिङकाण्डम् । (४०५) - मूर्खा इत्यादि – मूर्खा: सर्व एवैते त्वामववश्चन्त विप्रलब्धवन्तः । 'वञ्चु प्रलम्भने' ण्यन्तस्य 'गृधिवञ्च्योः प्रलम्भने |१|३|६९|' इति तङि चङि रूपम् । ये विग्रहमचीकरन् कारितवन्तो भवन्तम् । एष मातामहो माल्यवान् युक्तमभार्णात् भणितवान् । 'भण शब्दे ।' 'इट टि |८|२|२८|' इति सिचो लोपः । तत् त्वं मदान्नाक्षंस्थाः न सोढवानसि | 'क्षमूषू सहने' ॥ १५ ॥ राघवस्यामुसः कान्तामाप्तैरुक्तो न चाऽपिंपः । मा नानुभूः स्वकान्दोषान्मा मुहो मा रुषोऽधुना ॥ १६ ॥ राघवस्येत्यादि — प्रमादित्वमपि तेऽस्ति । यतो राघवस्य कान्ताम् अमुसः खण्डितवानसि | खण्डनं चास्या इदं यद्भत्र वियोजनम् । 'मुस खण्डने ।' पुषादित्वादुङ् पुषादयश्च गणान्ता गृहीताः । आप्तैर्विभीषणादि- भिरुक्तो न चार्पिपः नार्पितवानसि कान्ताम् । अर्तेण 'अर्तिहीन्लीरीक्नू- यीक्ष्माय्यातां पुङ |७|३|३६ || इति पुकि पुगन्तगुण: । चडि 'द्विर्वचनेऽचि ।१।१।५९' इति स्थानिवद्भावात् 'अजादेद्वितीयस्य |६|१|२|| इति पिशब्दो द्विरुच्यते । रेफस्य 'नन्द्राः संयोगादयः |६||३|| इति प्रतिषेधः । तदधुना स्वकानात्मीयान्दोषान् दुश्चरितानि मा नानुभूः अपि त्वनुभव । ‘माङि लुङ् ।३।३।१७५।’ | 'गातिस्थाघुपाभूभ्यः सिचः परस्मैपदेषु ।२॥४॥७७॥' इति सिचो लुक् । मा मुहः मोहं मा गमः । मा रुषः रोषं मा कार्षीः । मुहिरुषिभ्यां पुषादित्वाद ॥ १६ ॥ तस्याप्यत्यक्रमीत्कालो यत्तदाहमवादिषम् । अघानिषत रक्षांसि परैः कोशांस्त्वमव्ययीः ॥ १७ ॥ तस्येत्यादि- तत्तदा तस्मिन् कालेऽहमवादिषम् अभिहितवानस्मि । ‘राम: सन्धीयताम्' इति तस्यापि सन्धेः कालोऽत्यक्रमीदतिक्रान्तः । 'स्नुक्रमोरनात्मनेपदनिमित्ते |७|२|३६ | इती | मान्तत्वाद्धिप्रतिषेधः । यतः परैः शत्रुभिः रक्षांस्यधानिषत हतानि । चिण्वद्भावाद्वृद्धिघवे । त्वं च कोशमव्ययीः त्यक्तवानसि । लङ्कादाहे तस्यारक्षितत्वात् । 'व्यय वित्तसमु त्सर्गे' इति चुरादौ पठ्यते । यदा 'आधृषाद्वा' इति णिज् नास्ति तदा रूपम् । हृयन्तक्षणश्च सजागृणिश्व्येदिताम् । ७ । २ । ५ ।' इति ● १ विश्वासिभिः, हितैषिभिरिति यावत् । 'आप्तः प्रत्यथितस्त्रिषु ।' इत्यमरः ।
पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/४४३
दिखावट